SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७४ काव्यमाला। तद्गीतं गुरुबाष्पगद्गदगलत्तारखरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥' शापहेतुकप्रवासे मेघदूतकाव्यमेवोदाहरणम् ॥ , संभ्रमो दिव्यमानुषविद्वरादुत्पातवातादिविप्लवात् परचक्रादिविप्लवाद्वा व्याकुलत्वम् । यथा मकरन्दयुद्धसाहाय्यं कर्तुं गतस्य माधवस्य'हा प्रिये, हा मालति, किमपि किमपि शङ्के मङ्गलेभ्यो यदन्य द्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि । . कलयसि कलितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥' हास्यमाहविकृतवेषादिविभावो नासास्पन्दनायनुभावो निद्रादिव्यभिचारी हासो हास्यः। - देशकालवयोवर्णवैपरीत्याद्विकृताः केशबन्धादयो वेषाः, आदिशब्दान्न। र्तनान्यगत्याद्यनुकरणासत्प्रलापभूषणादीनि विभावा यस्य सः, तथा नासौ. ष्ठकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनखेदास्यरागपार्श्वग्रहणाद्यनुभावो निद्रावहित्थत्रपालस्यादि व्यभिचारी हासः स्थायी चर्वणीयत्वमागतो हास्यः । स चात्मस्थः परस्थश्च । तत्रात्मस्थमाहउत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आत्मस्थस्त्रेधा । स इति हासः । यद्भरतः 'ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ आकुञ्चिताक्षिगण्डं यत्सखनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ १. भरतमुनिना वाग्भटेन च तन्द्राप्यभिहिता.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy