SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः] काव्यानुशासनम् । स्त्रियाः यथा 'प्रणयकुपितां दृष्ट्वा देवी ससंभ्रमविस्मृत स्त्रिभुवनगुरुीत्या सद्यः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहता ववतु भवतत्यक्षस्यैतद्विलक्षमवस्थितम् ॥' पुंसो यथा'अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुडालनिभो मुग्धः प्रणामाञ्जलिः ॥ उभयस्य यथा 'पणयकुवियाण दुण्ह वि अलियपसुत्ताण माणइत्ताणम् । निचलनिरुद्धनीसासदिन्नकन्नाण को मल्लो ।' ईर्ष्यामानः स्त्रीणामेव यथा'संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज शिरसा तच्चापि सोढं मया । श्री तामृतमन्थने यदि हरेः कस्माद्विषं भक्षितं ___ मा स्त्रीलम्पट मां स्पृशेत्यभिहितो गौर्या हरः पातु वः॥' प्रवासविप्रलम्भमाहकार्यशापसंभ्रमैः प्रवासः। प्रवासो भिन्नदेशत्वम् । तत्र कार्यहेतुकः प्रवासो यथा. 'याते द्वारवतीं तदा मधुरिपौ तदत्तझम्पानतां कालिन्दीतटरूढवञ्जललतामालिङ्गय सोत्कण्ठया । १. 'प्रणयकुपितयोयोरप्यलीकप्रसुप्तयोर्मानवतोः । निश्चलनिरुद्धनिश्वासदत्तकर्णयोः को मल्लः ॥' [इति च्छाया।] २. र्याताम्बुधिमन्थने यदि हरि' इति वाग्भटकाव्यानुशासने पाठः साधुः. . १०
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy