SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६६ काव्यमाला । एवम् - 'एसो वि ण सच्चविओ जीसे पसरन्तपल्लवारुणराओ। मज्झणतम्बेसु भओ तह मदातम्बेसु लोयणेसु शमरिशो ।' इति । अयोगस्य व्यत्ययो योगश्चतुर्थी । यथा-- 'पश्चात्पर्यस्य किरणामुदीर्ण चन्द्रमण्डलम् । प्रायोऽत्र हरिणाक्षीणामुदीणा रागसागरः ।। अनानुद्गते चन्द्रे रागसागरवृद्धरयोगेऽपि चन्द्रस्योद्दीपनविभावनातिशयप्रतिपादनाथ योग उक्तः । यथा वा-~'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताशयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥' तथा'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥'. अत्र वराङ्गनादीनां पङ्कजादीनां च निःशेषतया पुरजलादिव्याप्तेश्योगेऽपि योग उक्तः। यथा वा'उदयति विततो रश्मिरजावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥' अत्र वारणेन्द्रलीलां गिरिर्वहतीत्यसंबन्धेति संबन्धः । यद्वा गिरिवारणेन्द्रगतयोर्लीलयोर्भेदेऽप्यैक्यमध्यवसितम् । एवमिति । मज्जनाताम्रयोर्लोचनयोर्मदरागे मदाताम्रयोः कोपोपरागे च १. 'एषोऽपि न .... यस्याः प्रसरत्पल्लवारुणरागः । मजनतामेषु भवस्ताथा मदातानेषु लोचनेषु ...... ॥' [इति संस्कृतम् । २. 'किरणानुदीर्ण' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy