SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः ] काव्यानुशासनम् । यथा वा 'अयि' दियर किं न पेच्छसि आयासं किं मुहा पलोएसि । ' जायाऍ बाहुमूलम्मि अद्धयन्दाण परिवाडिम् ॥' अत्र नखार्धचन्द्राणाम् ॥ अभेदस्य व्यत्ययो भेदो द्वितीया । यथा 'अण्णं लडहत्तणयं ण्ण चिअ कावि वत्तणच्छाया । 'सामा सामण्णपयावइस्स रेह चिय न होइ ||' अत्र लटभत्वादेरभिन्नस्यैव भेदेनाभिधानम् ॥ योगस्य संवन्धस्य व्यत्ययोऽसंबन्धस्तृतीया । यथा यथा वा 'मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥' अत्राभिसारिकाणां लक्षणक्रियायोगेऽपि ज्योत्स्नाबाहुल्योत्कर्षविवक्षया योग उक्तः । २६५ 'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥' अत्र मदोदयस्य लक्षणेऽपि स्वाभाविकविभ्रमाणामुत्कर्षविवक्षया लक्षणस्यायोग उक्तः ॥ १. 'अयि देवर किं न प्रेक्षसे आकाशं ( आयासं वा ) किं मुधा प्रलोकयसि । जायाया वाहुमूलेऽर्धचन्द्राणां परिपाटीम् ॥' [इति संस्कृतम् ॥] २. 'अइ दिअर किं ण' गाथासप्तशत्याम्. ३. ' अन्यत्सौकुमार्यमन्यैव कापि वर्त्तनच्छाया । श्यामा सामान्यप्रजापते रेखैव न भवति ॥' [इति संस्कृतम् । ] ४. 'अण्णा' का० प्र०. ५. 'पआवइणो' का० प्र०. ૨૪
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy