SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | ' स यस्य दशकंधरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सांध्यो विधिः । तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क स क स दशाननो ननु निवेद्यतां राक्षसाः ||' अत्र ‘तदात्मज इहाङ्गदः' इति साकाङ्क्षया काका खगता वालिपुत्रो - चिता विशेषा अर्घ्यन्ते ॥ 'निर्वाणवैरदहनी :-' इति । अत्र भैवन्तीति साकाङ्क्षाका कुर्भवनाभावमाह । भवन्तीति व चनोच्चारणं त्वर्थेऽसंभावनां विदधदभावस्य निषेधात्मनो विषयं भवनलक्षणमर्पयति । न भवन्त्येवेत्यर्थः ॥ २३८ भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः । भिन्नरूपाणां सार्थकानर्थकानां शब्दानामेकार्थत्वमिवामुखे, न पुनः परमार्थतः, पुनरुक्तवदाभासनं पुनरुक्ताभासः । यथा- "सत्त्वं सम्यक्समुन्मील्य हृदि भासि विराजसे । द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥' रापेक्षास्तत एवान्यत्राप्यभिप्रेतेऽन्यथापि प्रयोक्तुं शक्याः । अत एव दृष्टव्यभिचाराः । नादस्तु झटित्युद्भिन्नमुखरागपुलकस्थानीयो नान्यथाकर्तुं पार्यत इत्यन्यथासिद्धोऽन्यथासिद्धं शब्दार्थ बाधत एव वा यथोक्तं भीरुर्नाम भयमिति । अन्यप्रकारतां वा वाक्यार्थस्य विशेषार्पणेन विधत्ते ॥ वचनोच्चारणमिति । वचनस्य भवन्तीति रूपस्य ॥ इत्याचार्यश्री हेमचन्द्रविरचिते विवेके पञ्चमोऽध्यायः । 'प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥' इति शेषयोजने संपूर्ण श्लोको वेणीसंहारे द्रष्टव्यः. २. - ३. 'भवन्त्विति' स्यात्, नाटके वा 'भवन्ति' इति स्यात्, विवेकसंवादात्. १. ' इत्यनन्यथासिद्धो' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy