SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः काव्यानुशासनम् । सा च काकुर्द्विधा-साकाङ्क्षा निराकासा च । वाक्यस्य साकायनिराकाङ्कत्वात् । यस्माद्वाक्यात् यादृशः संकेतवलेनार्थः प्रतीयते, न तादृश एव, किं तु न्यूनाधिकः प्रमाणवलेन निर्णययोग्यस्तद्वाक्यं साकासम् । तद्विपरीतं निराकासम् । वक्तगता ह्याकाङ्क्षा वाक्ये उपचर्यते । सा च प्रकरणवलान्निश्चीयते । विशिष्टविषयत्वं च तस्यास्तत एवावसीयते ।। ___ विषयोऽपि त्रिविधः-अर्थान्तरम्, तदर्थगत एव विशेषः, तदर्थाभावो वा । यथा 'देशः सोऽयमरातिशोणितजलैर-' इति । अत्र साकाकाकुप्रभावात् 'ततोऽभ्यधिकं कुरुते' इत्यर्थान्तरे गतिः ॥ साकामिति । मन्द्रादितारान्तमपरिसमाप्तवर्णालंकारं कण्ठोरःस्थानगतं यथा भवति तथैतत्पठनीयम् ॥ तद्विपरीतमिति । यादृशो वाक्यात्संकेतवलेनार्थः प्रतीयते तादृश एव यनान्यूनाधिकः प्रमाणवलेन निर्णययोग्यस्तदति ॥ निराकामिति । मन्द्रादितारान्तं परिसमाप्तवर्णालंकारं शिरःस्थानगतं यथा भवति तथेदं पठनीय मि. त्यर्थः । काकुप्रभावादिति । उदात्तकम्पितवर्णस्योच्चदीप्तालंकारस्य वासमाप्त्या या काकुपठितिस्तत्प्रभावादित्यर्थः । एवमुत्तरत्रापि साकाङ्क्षकाकूदाहरणद्वये व्याख्येयम् ॥ ननु श्रुतमर्थमनादृत्य कथं काकुरर्थान्तरं प्रतिपादयेत् । तत्रोक्तमन्यैः-वस्तुखभावोऽत्र द्रष्टव्यः, न हि दृष्टेऽनुपपन्नं नाम' इति । वयं तु ब्रूमः-इह येयं प्रथमेन संवित्स्यन्देन प्राणोल्लासया वर्णादिरूपविशेषहीना वाग्जन्यते सा नादरूपा सती हर्षो(कादिचित्तवृत्ति विधिनिषेधाद्यभिप्रायं वा तत्कार्य लिङ्गतया तादात्म्येन वा गमयतीति तावस्थितम् । तथा च प्राण्यन्तरस्य मृगसारमेयादेरपि नादमाकर्ण्य भयरोषशोकादि प्रतिपद्यते तदयं नादाच्चित्तवृत्त्याद्यवगमोऽनुमानं तावत् । ये त्वेते वर्णवि. शेपास्ते तन्नादरूपसामान्यात्मकवाक्तन्तुग्रन्थिमया इव प्राच्यप्रयत्नातिरिक्त निमित्तान्त 'यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहात् । तान्येवाहितहेतिघस्मरगुरुण्यत्राणि भावन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' इति शेषपूरणे संपूर्णः श्लोको वेणीसंहारे. २. 'ततोऽप्यधिकं' स्यात्, १. 'अनियुक्तार्थमनिर्यातितवर्णा' भरते. २. 'तदिति...' स्यात्. ३. 'नियुक्तार्थ निर्यातित' भरते. १.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy