SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः] - काव्यानुशासनम् । १६९ वाक्यस्य यथा--- . . 'अचूचुरचण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदं शशाङ्कः ।' अत्र चण्डिद्रागादीनि पदानि श्रुतिकटूनि । .. वक्राद्यौचित्ये गुणो यथा--- 'देधीड़ेवीङ्समः कश्चिद्गुणवृद्ध्योरभाजनम् । . कित्प्रत्ययनिमः कश्चिद्यत्र संनिहिते न ते ॥' . - अत्र वैयाकरणो वक्ता । . 'यदा त्वामहमद्राक्षं पदविद्याविशारदः । . उपाध्यायं तदास्मार्ष समस्प्राक्षं च संमदम् ॥' अत्र वैयाकरणः प्रतिपाद्यः । __'मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के । . कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ।।' अत्र सिंहे वाच्ये परुषाः शब्दाः । 'अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणकऋण_ प्रायप्रेङ्खितभूरिभूषणरवैराघोषयत्यम्बरम् । पीतच्छर्दितरक्तकर्दमधनप्राधारघोरोल्लल यालोलस्तनभारभैरववपुर्दोद्धतं धावति ॥ अन बीभत्से व्यङ्गये। __. . 'रक्ताशोक कृशोदरी क नु गता त्यक्त्वानुरक्तं जनं । नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छद स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ।।' ': अत्र शिरोधूननेन कुपितस्य वचसि प्रक्रान्ते ॥ .. . १. 'दम्' प्रकाशे. २. 'पुरः' प्रकाशे. ३. 'प्रारभारघोरोल्लस-' प्रकाशे.. २२
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy