SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तद्याचेमहि सप्तविष्टपशुचीभावकतानव्रतं संयच्छ खयशः सितासितपयोभेदाद्विवेकोऽस्तु नः ॥' अत्रामुग्धस्यापि मुग्धस्येव ब्राह्मणस्य वक्तृत्व स्वस्तीति गुणः । वाक्यस्य यथा 'ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः । करोति खादनं पानं सदैव तु यथा तथा ॥' क्वचिद्गुणाः। 'फुल्लक्करं कलमकूरसमं वहन्ति । जे सिन्दुवारविडवा मह वल्लहा ते । जे गालिदस्स महिसीदहिणो सरिच्छा ते किं वि मुद्धवियइल्लपसूणपुञ्जा ।' अत्र कलमभक्तमहिषीदधिशब्दानां लौकिकत्वेऽपि विदूषकोक्तौ गुणत्वम्। शास्त्रमात्रप्रसिद्धिर्यथा 'यथायं दारुणाचारः सर्वदैव विभाव्यते । तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ।' अत्र दैवतशब्दः पुंलिङ्गे लिङ्गानुशासने प्रसिद्धः । यथा वा-- 'सम्यग्ज्ञानमहाज्योतिर्गलिताशयताजुषः । विधीयमानमप्येतन्न भवेत्कर्मबन्धकम् ॥' 'अस्यार्थस्य शब्दोऽयं सर्वत्र वाचकः' इति मन्यमानः प्रयुञ्जीत । व्युत्पत्तिर्यस्य नास्तीति वचनाञ्च स व्युत्पत्तिकं देश्यं कदाचित्प्रयोज्यमेवेत्युक्तं भवति-यथा दूर्वायां छिन्नोद्भवाशब्दः, ताले भूमिपिशाचः, शर्वे महानरः, वृक्षे पशुभक्तः, चन्द्रामृतयोः 'पुष्पोत्करं कलमौदननिभं वहन्ति ये सिन्धुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदनः सदृशा स्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः ॥' [इति संस्कृतम् ।]
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy