SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] काव्यानुशासनम् । १५७ 'गङ्गेव प्रवहतु ते सदैव कीर्तिः' इत्यादौ च गङ्गा प्रवहति, न तु प्रवहतु इति अप्रवृत्तप्रवृत्तात्मनो विधेः । एवंविधस्य चान्यस्यार्थस्योपमानगतस्यासंभवाद्विध्यादिभेदः । अथाष्टावुभयदोषानाह अप्रयुक्ताश्लीला समर्थानुचितार्थश्रुतिकटु क्लिष्टाविमृष्टविधेयांशवि रुद्धबुद्धिकृत्त्वान्युभयोः । उभयोरिति । पदस्य वाक्यस्य चेत्यर्थः । दोषा इति वर्तते । कविभिरनादृतत्वादप्रयुक्तत्वम् । तच्च लोकमात्रप्रसिद्धत्वाच्छास्त्रमात्र प्रसिद्धत्वाच्च । आद्यं यथा ---- ‘कष्टं कथं रोदिति थूत्कृतेयम्' । देश्यं चैतत्प्रायमेव । यदाह 'प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्महादि कथंचिन्न रूढिरिति संस्कृते रचयेत् ॥' कचिद्गुणो यथा 'देव स्वस्ति वयं द्विजातत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे । 'दध धारणे' इत्यस्य दधातेश्चात्मनेपदैकवचनबहुवचनाभ्याम् ॥ लोकमात्रप्रसिद्धत्वादिति । एतेन प्राम्यर्मयुक्तत्वान्न भिद्यत इत्याह ॥ शास्त्रमात्र प्रसिद्धत्वादिति । शास्त्राणि योगशास्त्रधातुपाठाभिधानकोशादीनि । तेनाप्रतीतासमर्थनिहतार्थत्वानि न पृथग्लक्षणीयानि अप्रयुक्तत्वं एवान्तर्भावादिति ॥ एतत्प्रायमेवेति । लोकमात्रप्रसिद्विप्रायम् | केवलं नियत देशविषयत्वेन प्रसिद्धिरिति प्रायग्रहणम् । मडहादीति । मडलडद्दाहारणकान्दाह एहु कफ सुमालवाणवालादिकम् । यथाक्रमं सूक्ष्मश्रेष्ठवस्त्रोत्पलदरिद्राञ्जलिचौरशकादिवाचकम् । रूढिरितीति । रूढिभ्रान्त्या कश्चिद्विद्धदेशप्रसिद्ध्या १. 'प्रवर्तनात्मनो' का० प्र०. १. 'अप्रयुक्त' स्यात्. २. 'विध्य' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy