SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४२ काव्यमाला। तथा'अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपतिनिपातिभिरङ्कितः । न खलु शोभयति स्म वनस्थली न तिलकस्तिलकः प्रमदामिव ।' अत्र तिलकप्रमदयोरेकतरस्य समासोक्तित एवाक्षेपादन्यतरस्याधिकपदत्वम् । यथा वा रूपके-'शोकानलधूमसंभारसंभूताम्भोदभरितमिव वर्षति नयनवारिधाराविसरं शरीरम् ।' | अत्र शोकस्य केनचित्साधर्म्यणानलत्वेन रूपणमस्तु धूमस्य पुनर्न किंचिद्रूप्यमस्तीति अधिकपदत्वम् । तथा—'निर्मोकमुक्तिमिव गगनोरुगस्य लीलाललाटिकामिव त्रिविष्टपस्य ।' अत्र रूपकेणैव साम्यस्य प्रतिपाद्यमानत्वादिवशब्दस्याधिक्यम् । यथा वा समासोक्तौ'स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजम्भिततापया। अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ॥ __ अत्र तिग्मरुचेः ककुभां च यथासदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया व्यक्तिस्तथा ग्रीष्मदिवसश्रियोऽपि प्रति नायिकात्वेन भविष्यतीति दयितयेत्यधिकम् । यथा वान्योक्तौ 'आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते ___ मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् । - खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ . अत्राचेतसः प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तेः प्रभुमिवेत्यधिकम् । १. 'रंगस्य' स्यात्. २. 'नायकतया नायिकात्वेन च व्यक्तिः ' का० प्र०. ३. 'मध्येवारिधि वावस' का० प्र०. ४. 'रुचम्' का० प्र०. ५. 'सं' का० प्र०.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy