SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः ] यथा काव्यानुशासनम् । 'पश्यामि तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्तमानाम् । उद्बुद्धमुग्धकनकाब्जनिभं वहन्तीमासज्य तिर्यगपवर्तितदृष्टि वक्रम् ॥' आक्षेपादेरमर्पः स्वेदादिकृत् । विधैश्वर्यबलाधिककृतेभ्यः आक्षेपावमानादिभ्यः प्रतिचिकीर्षारूपोऽमर्षः। स च स्वेदध्यानोपायान्वेषणशिरः कम्पाधोमुखविचिन्तनादिभिर्वर्ण्यते । यथा लाक्षागृहानलविषान्नसभाप्रवेशैः - प्राणेषु चित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥' निर्घातादेखासोऽङ्गसंक्षेपादिकृत् । यथा निर्घातगर्जितभूपर्वत कम्पशिलोल्काशनिविद्युत्पातरक्षःस्थूलप्रभूतकुष्ठादिभ्यश्चेतश्चमत्कृतिरूपस्त्रासो भयात्पूर्वापर विचारवतो भिन्न एव । सोऽङ्गसंक्षेपस्तम्भरोमोनमगद्गदप्रलयोत्कम्पनिः स्यन्दवीक्षितैर्वर्ण्यः । ९५ यथा ‘परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥' ग्रहादेरपस्मारः कम्पादिकृत् । ग्रहभूतदेवयक्षपिशाचब्रह्मराक्षसशून्यारण्यश्मशानसे वनोच्छिष्टगमनधातुवैषम्यादेरावेशरूपोऽपस्मारः । तं कम्पितस्फुरितखिन्नधावितश्वसितभूमिपतनारावमुखफेनादिभिर्वर्णयेत् । अयं च प्राय आभासेष्वेव शोभते । 'आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारवृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥'
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy