________________
'अतिवाहना' नामके ६२ वें पद्यके बाद
वधादसत्याच्चौर्याच्च कामादग्रंथाविवर्तनं । पंचकाणुव्रतं राज्यभुक्तिः षष्ठमणुव्रतम् ॥ ७१ ॥ अह्नोमुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥ ७२ ॥ मौनं भोजनवेलायां ज्ञानस्य विनयो भवेत् । रक्षणं चाभिमानस्येत्युद्दिशति मुनीश्वराः ॥ ७२ ॥ हदनं मूत्रणं स्नान पूजनं परमोष्ठिनां। भोजनं सुरतं स्तोत्रं कुर्यान्मौनसमन्वितः ॥ ७४ ॥ मांसरक्ताईचर्मास्थिपूयदर्शनतस्त्यजेत् । मृतांगिवीक्षणादनं प्रत्याख्यानामसेवनात् ॥ ७५ ॥ मातंगश्वपचादीनां दर्शने तद्वचः श्रुतौ ।
भोजनं परिहर्तव्यं मलमूत्रादिदर्शने ॥ ७६ ॥ 'मद्यमांस' नामके ६६ वें पद्यके बाद
मांसाशिषु दया नास्ति न सत्यं मद्यपायिषु ।
धर्मभावो न जीवेषु मधूदुम्बरसेविषु ॥ ८ ॥ 'अल्पफल ' नामके ८५ वें पद्यके बाद
स्थूलाः सूक्ष्मास्तथा जीवाः सन्युदुम्बरमध्यगाः। तनिमित्तं जिनोद्दिष्टं पंचौदुम्बरवर्जनं ॥ १०१॥ रससंपृक्तफलं यो दशति त्रसतनुरसैश्वसंमिश्रम् । . तस्य च मांसनिवृत्तिर्विफला खलु भवति पुरुषस्य ॥ १०२॥ बिल्वालाबुफले त्रिभुवनविजयी शिलीदुकं (?) न सेवेत। आपंचदशतिथिभ्यः पयोऽपि वरसोद्भवात्समारभ्य ॥ १०२ ॥ गालितं शुद्धमप्यम्बु संमूर्छति मुहूर्तकः । • अहोरात्रं तदुष्णं स्यारकांजिकं दूरवह्निकं ॥ १०४ : हतिप्रायेषु पात्रेषु तोयं स्नेहं तु नाश्रयेत् । नवनीतं न धर्तव्यंमूर्ध्वं तु प्रहरार्धतः ॥ १०५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org