SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ T प्रत्ययो भवति चातुरर्थिकाः देशे नानि । अणोऽपवादः । पृथग्यो गाडिदिति निर्वृत्तम् । शिखावलं नाम नगरम् । मतुप्रकरणे शिखाया वलंच वक्ष्यति तत् अदेशार्थं वचनम् ॥ ७६ ॥ शिरीषादिककणौ ॥ ६२॥ ७७ ॥ शिरीषशब्दादिककण् इत्येतौ प्रत्ययौ भवतः चातुरर्थिकौ देशे नाम्नि | शिरपाणामदूरभवो ग्रामः शिरीपिकः । शैरीषकः ॥ ७७ ॥ शर्कराया इकणीथाण् च ॥ ६ । २ । ७८ ॥ शर्कराशब्दादिकण ईय अण् चकारात् इक कण् इत्येते प्रत्यया भवन्ति चातुरर्थिका देशे नानि । शर्करा अस्मिन्देशे सन्ति शार्करिकः । शर्करीयः । शार्करः । शर्करिकः । शार्करकः । शिरीपाः शर्करा इति प्रसययोगमन्तरेणापि देशे | वृत्तिरिति पूर्ववत्मत्ययो न भवति ||७|| रोमादेः ||६|२|७९॥ अश्मादिभ्यो रः प्रत्ययो भवति चातुरर्थिको देशे नाति । अश्मरः । यूपरः। अश्मन् खूप रूप यूथ मीन युद्द दर्भ कूट गुहा वृन्द राग कण्डगढ कन्द पावन । इत्यश्वादिः ||१९|| प्रेक्षादेरिन् || ६२ । ८० ॥ प्रेक्षादिभ्य इन् प्रत्ययो भवति चातुरधिको देशे नाम्नि | प्रेक्षी | फलकी | प्रेक्षा फलका बन्धुका ध्रुवका ध्रुवका क्षिपका कूप पुक धुक इकट कङ्कट संकट मह गर्त न्यग्रोध परिवाप यवाप हिरण्यइति प्रेक्षादिः ॥८०॥ | तृणादेः सल् || ६ | २ | ८१ ॥ तृणादिभ्यश्रातुरर्थिकः स मन्ययो भवति देशे नानि । तृणसा । नदसा । तृण नद जन पर्ण वर्ण अर्णस् वरण बिल तुस वन पुल । इति तृणादिः ॥ ८१ ॥ काशादेरिलः ॥। ६ । २ । ८२ ॥ काशादिभ्यश्रातुरर्थिक इलः प्रत्ययो भवति देशे नाम्नि । काशिलम् । वाशिलम् । काश वाश अश्वत्थ पलाश पीयूक्षा पाश विश तृण नल वन नलवन कर्दम कर्पूर वर्बर वर्तुल शीपाल कण्टक गुहा कपित्थ । इति काश्यादिः ॥ ८२ ॥ अरीहणादेरकण् ॥ ६ । २ । ८३ ॥ अरीहणादिभ्यश्चातुरथिंकोकण प्रत्ययो भवति देशे नान्नि । आरीहणकं, खाण्डवकम् । अरीहण खण्ड खण्डू दुषण किरण खदिर भगल भलन्दन उलन्द खारायण खापुरायण खानुरायण कौष्टायन कौद्रायण भात्रायण त्रैगर्तायन रैवत रायस्पोष विपथ विपाश उद्दण्ड उदश्चन ऐडायन जाम्बवत जाम्बवत् शिंशपा वीरण धौमतायन यज्ञदत्त सुयज्ञ वधिर बिल्व जम्बू साम्बुरापण सौशायन सौमायन शाण्डिल्यायन श्वित्रायणि साम्वरायण कश कृत्स्न सुशर्मन् । इत्यरीहणादिः ॥८३॥ सुपन्थ्यादेर्भ्यः ॥६॥२॥८४॥ सुपन्थिन् इत्यादिभ्यश्रातुरर्थिको ञ्न्यः प्रत्ययो भवतिदेशे नान्नि। सौपन्थ्यम् । सौबन्थ्यम्। सुपथिन्शब्दस्यात एव निपातनात् पकारात्परो नागमः पस्य च वा वक'रः । सांकाश्यम्। काम्पील्यम्। सुपन्थिन् सुवन्धिन् संकाश कम्पील - सुपरि + यूप अश्मन् अश्व अङ्ग नाथ कुण्ट स्कुट कूट मादित *मृष्टि ॥ वक्ष्यतीति | कृप्यादिभ्यो वलच् ॥ अदेशार्थांमेति । न वाच्य सामान्येनोत्तरेण देशेप्यदेशेपि भविष्यतीति यतोत्राणोपवाद इत्युक्तम् ततश्वादेशे तस्य चरितार्थत्वात् देशे 'निवासादूरभवे इत्यादन न्यु ॥शर्कराया। शिरीवाः शर्करा इति । नन्वेवविधान्यपि देशनामानि दश्यन्ते तदर्थं प्रत्ययलुप् वक्तव्येत्याशङ्का ॥ - सुपन्थ्यादेयं । सुपन्थ्यादिर्विचार्यते । शोभन पन्थाः सुपन्था सुपन्थिन् गणपाठात् बखे सुवन्थिन् । सकाशते अच् सकाशः । क सुख पीलति कंपोलः । सुष्ठु पिपत्ति ' स्वरेभ्य इ ' सुपरि । ' युसु-' इति यूप । गम्यमि-' इति 'उखनख' इति या अद्गः । नाथति अच् नाथः । कुदति नाम्युपान्य' इति के कुछ । कूटयति अचि कुट । माद्यन्त प्रयुङ्क्ते मायते स्म मादितः मार्जन गरीन मर्पण वा सृष्टिः । ।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy