SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Preenacemanence पाहे पर्येहि। अनयोरिदन्तत्वादिकल्पे प्राप्ते नित्यार्थः पाठः। बहुवचनमाकृतिगणार्थम्। तेन नद मह भप प्लव 'चर गर तर गाह देव सूद अराल उदवड चण्ड उमाज हरीकणी वटर अधिकारी एपण करणे इति केचित। इष्यते अन्विष्यतेऽनया दोष इति 'इपोऽनिच्छायाम्' (५-३-११२) इत्यने सति एपणी वैद्यशलाका। करणादन्यत्रैपणा। अन्वेषणा। आवेव। तदन्ये न मन्यन्ते। मुख्यादिति किम्। बहुनदा भूमिः॥१॥ 'अणजेयेकण्नलटिताम्।।२।४।२०॥ अणादिमत्ययानां योऽकारस्तदन्तानाम्नः प्रत्यासत्तेस्तेपामेवाणादीनां वाच्यायां स्त्रियां वर्तमानात् ङीर्भवति । अण् उपगोरपत्यमोपगवी । तपोऽस्या अस्तीति तापसी । कुम्भकारी। काण्डलाबी याति। अन् , उत्सस्यापत्यमौत्सी । विदस्यापत्यं पौत्री वैदी। छनचुरातपःशीलेति छत्रादित्वादनि छात्री चौरी तापसी। एयण सुपर्णा अपत्यं सौपर्णेयी। वैनतेयी । । एयच् , शिलायास्तुल्या शिलेयी । एयञ् शैलेयी । 'शिलाया एयच्च' (७-१-११३) । निरनुबन्धनिर्देशः सामान्यग्रहणार्थः । इकण् , अदीव्यति आक्षिकी। प्रस्थेन क्रीता प्रास्थिकी । नञ् स्त्रिया अपत्यमियं वा स्त्रैणी । सञ् , पुंसोऽपत्यमियं वा पोस्ली । टित् जानु जर्व प्रमाणमस्या' जानुदनी । जानुद्वयसी । जानुमात्री । पञ्च अवयवा यस्याः पञ्चतयी। एवं द्वयो । त्रयी । शक्तिरायुधमस्याः शास्तीकी । एवं याष्टीकी। बोभवा ह्यस्तनी । एवमद्यतनी । श्वस्तनी । चिरंतनी । परुत्वनी। भूतपूर्वा भिक्षुः भिक्षुचरी । सक्तुधानी । गायनी । कुरुचरी । प्रत्ययसाहचर्यादागमटितो न भवति । पठिता विद्या । शुनिधयी स्तनंधीत्या दौ तु धातोष्टिकरणस्यानन्यार्थत्वादटितोऽपि भवति । अणादीनां पष्ठीनिर्देशेनाकारस्य विशेषणं पाणिनिना प्रोक्तं पाणिनीयम् । तदधीते '-इत्यण । तस्य | 'प्रोक्तात् । (६-२-१२९) इति लोपे, पाणिनीया कन्येति ङी यथा माभूत् । प्रत्यासत्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् । गौतमेन प्रोक्ता नीतिगौतमीति । ताम् अधीते इत्यण । तस्य मोक्तादिति लोपे 'यादेः-(२-४-२४) इत्यादिना डीलोपे ङीर्यथा न स्यात्। गौतमा कन्या। अस्त्यत्राणोऽकारोन तु तदभिधेया नीतिलक्षणा स्त्री प्रत्ययाहा । यदभिधेया तु कन्यालक्षणा स्त्री प्रत्ययाही न तस्याकारोऽस्ति इति । तथा बहुकुम्भकारा नगरी । बहुकुरुचरीत्यादि ॥ २०॥ हीभार्य इति । अनडाहीशब्दो व्यक्ती प्रवर्तित । जातिवाचित्वे तु 'स्वाभाद्डी '-इत्यनेन पुंवनिषेध सिद्ध । आङ्पूर्वस्य ईहि चेष्टायामित्यस्य एहते इति वाक्ये 'मन्यादिभ्य कि ' इति की एहिः। एव पर्यहते पहिः । चरी गूढपुरुषी । गरी भक्षिका । तरी तरित्री सी । गाही अवगाहिका । सूदी सुपकारिणी । अराल इति पक्षिविशेषार्थोऽत्र द्रष्टव्य । वक्रार्थस्तु शोणादौ द्रष्टव्य । उद्वड इति । वड आग्रहणे सौत्रो धातुः । उदक बडति इति उदवड' पानीयहारिणीवाचक कृमिजातिविशेपो वा । चण्ड इति गोरीवाचकश्चण्डशब्दोऽत्र द्रष्टव्य । कोपनावाचकस्तु शोणादो द्रष्टव्य । उमाया भन्न इव भनो यस्या । हरी ओषधिस्तस्या इव कणा यस्या । हत्य. सुवर्णवर्णा कणा यस्या वा । बटरः क्षुद्वजन्तु । अधिकार कारयति या खी॥-करणे इति । करणकारके इत्यर्थः ॥ इपच् गतौ ॥-अणयेकण्-॥ काण्डान् लविष्यामीति काण्डलावी ' कर्मणोऽण् ॥-पाणिनीयमिति । पणन पण 'पणेमाने ' अल् सोऽस्यास्तीति पणी तस्यापत्य वृद्ध 'इसोपत्ये' अण् । पाणिनस्यापत्यं युवा 'अत इस्' । पाणिनिना प्रोक्त 'तेन प्रोक्ते' इति विपये 'यूनि लुप्' इति इनो लुप् । अन्यथा 'वृद्धेन.'-इति स्यात् । यतो 'वृद्धाधुनि' इत्यत्र यूनोऽपि वृद्धसज्ञा कार्यदर्शनादित्युक्तम् । ततोऽत्रापि इअन्तस्यावृद्धेऽपि वर्तन ज्ञेय ततो दोरीयः' ॥-बहुकुम्भकारा नगरीति । अत्र वहव. कुम्भकारा यस्यामिति कार्यम् । PrateenteereanewsreereareCreenerace
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy