________________
, २२२
वेम प्रेम ब्रह्म गरुल्लोम विहायः, कर्माष्ठीवत्पक्ष्मधनुर्नाममहिम्नी ॥१२२॥
इति पुन्नपुंसकालिंगाधिकारः।
स्त्रीक्लीबयोर्नखं शुक्ती, विश्वं मधुकमौषधे, माने लक्ष मधौ कल्यं, क्रोडोऽङ्के तिन्दुकं फले ॥ तरलं यवाग्वां पुष्पे, पाटलं पटलं चये । वसन्ततिलकं वृत्ते, कपालं भिक्षुभाजने ॥१२३॥ अर्धपूर्वपदो नावष्टयणक-नटौ कचित् । चोराधमनोज्ञाधकञ् , कथानककशेरुके ॥१२४॥ वंशिकवक्रोष्ठिककन्यकुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोदन शुम्बं तुम्बं महोदयं कांस्यम् ॥१२५॥ मृगव्यचन्ये च वणिज्यवीर्यनासीरगात्रापरमन्दिराणि । तमिस्त्रशस्त्रे नगरं मसूरत्वक्क्षीरकादम्बरकाहलानि ॥१२६॥
स्थालीकदल्यौ स्थलजालपित्तला
गोलायुगल्यौ बडिश च छर्दि च । अलाबु जम्बूडरुषः सरः सदो, रोदोऽर्चिषी दाम गुणे त्वयट् तयट् ॥१२७॥
इति स्त्रीनपुंसकलिङ्गाधिकारः।
-