SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७६ १३१८ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेगीतनृत्यसमायुक्तमुपचारसमन्वितम् । ततो निशान्ते देवाय दत्त्वा चार्घ विधानतः ॥ स्नानादिकां क्रियां कृत्वा भुञ्जीयाद्राह्मणैः सह ॥ *महादेव उवाच-- द्विजैतत्रिस्पृशाख्यानमद्भुतं रोमहर्षणम् । श्रुत्वा तु लभते पुण्यं गङ्गातीर्थफलं लभेत् ॥ ७७ अश्वमेधसहस्राणि वाजपेयशतानि च । तत्फलं समवामोति त्रिस्पृशासमुपोषणात् ॥ ७८ पितृपक्षो मातृपक्षस्तथा चैवान्यपक्षकः । तैः सर्वैः सह संभुक्तो विष्णुलोके महीयते ॥ ७९ तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम् । तत्फलं समवामोति त्रिस्पृशासमुपोषणात् ॥ ८० ब्राह्मणा येऽपि कुर्वन्ति क्षत्रियाः कृष्णमानसाः।वैश्या वा शूद्रजा वाऽपि ये तथा चान्यजातयः ते सर्वे मुक्तिमायान्ति भुवं त्यक्त्वा द्विजोत्तम । मत्राणां मत्रराजोऽयं दशाक्षर इति स्मृतः॥८२ व्रतानां च तथा चैषा येन वै त्रिस्पृशा कृता । ब्रह्मणा च कृता पूर्व पश्चान्नानर्षिभिः कृता ॥ अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे त्रिस्पृशाख्यानं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥] आदितः श्लोकानां समष्ट्यङ्काः-३३६२४ अथ षट्त्रिंशोऽध्यायः । नारद उवाच+ एकादश्युपवासस्य एकभक्तस्य वै पुनः । नक्तस्य च विशेषेण फलं भूहि महेश्वर ॥ १ महादेव उवाचहेमन्ते चैव संप्राप्ते मासे मार्गशिरे तथा । शुक्लपक्षे यदा पार्थ उ(ब्रह्मनु)पोष्यैकादशी तथा(दा)। दशम्यां चैव नक्तं च शुचिष्मांश्च दृढव्रतः(?) । प्रभातसमये प्राप्ते नियमं कृत्वा व्रतस्य च ॥ ३ मध्याह्ने तु तथा पार्थ(विप्र) स्नानं शुचि समाचरेत् । गृहेषु त्वधर्म स्नानं वापीकूपेषु मध्यमम्॥४ * धनुश्विद्वान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽग्रे लिखितो ग्रन्थ उपलभ्यते-- अनेन विधिना ब्रह्मनिस्पृशासंभवं व्रतम् । यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम् ॥ १॥ गगावगाहने वर्षे यत्कोटिभिः फलम् । तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः ॥ २ ॥ तत्फलं त कुरुक्षेत्र सूर्यग्रहणकोटिभिः । हेमभारस(श)तदातत्रि(दत्तत्रिस्पृशाकरणेन तत् ॥ ३ ॥ पापकोटिसहस्राणि हयाकोटिशतानि च । एकैनवोपवासेन वासेन भिस्यमाकृते (?) ।। ४ ।। त्रिस्पृशाया बतायस्तु आगतानां गतपदः । गतिमिच्छन्ति विप्रर्प महत्पापशतानि च ॥ ५ ॥ स्वयं कृष्णेन काथितं पाराशर्य ममाग्रतः । प्रकाशयति यश्चेदं लिखित्वा वैष्णवाद्विजे॥ ६ ॥ पापोधैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति । पुण्यैरवाप्यते विद्वान्मन्वन्तरशतैरपि ॥ ७ ॥ तृष्ण(त्रिस्पृ)शा दुर्लभा लोके प्राप्यते नैव मानवैः । कलो पैतृस्मृताल्लब्धान कुर्वन्ति नराधमाः ॥ ८ ॥ तेषां जन्मफलं चैव जीवितं विमलं भवेत् । प्रेतत्वं तैः समुत्तीर्ण विना श्राद्धविना सुतैः ।। ९ ।। कृत्वा यैत्रिस्पृशां विद्वान्सकृत्याप्य कली युगे ॥ १० ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे त्रिस्पृशामाहात्म्यं नामाध्यायः ।। + अयमग्रिमश्वाध्यायो बहुषु पुस्तकेषु नोपलभ्यतेऽसंबद्धश्च । १ क. ख. च. ज. झ. अ. फ. युक्तं तथा शास्त्रस । २ ज. जोऽथ यथा स्याद्वादशाक्षरः । व्र।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy