________________
१८५४
महामुनिश्रीव्यासप्रणीतं- [६ उत्तरखण्डेअथ प्रमुदिता देवी कौशल्या शुभलक्षणम् । पुत्रमालिङ्गय हर्षेण स्तनं पादात्सुमध्यमा ॥ ९० तस्याः स्तनं पपौ देवो बालभावात्सनातनः । उवास मातुरुत्सङ्गे जगद्भा महाविभुः॥ ९१ तस्मिन्दिने शुभे रम्ये सर्वकामप्रदे नृणाम् । उत्सवं चक्रिरे पौरा हृष्टा जानपदा नराः॥ ९२ कैकेय्यां भरतो जज्ञे पाञ्चजन्यांशसंभवः । सुमित्रा जनयामास लक्ष्मणं शुभलक्षणम् ॥ ९३ शत्रुघ्नं च महाभागा देवशत्रुप्रतापनम् । अनन्तांशेन संभूतो लक्ष्मणः परवीरहा ॥ सुदर्शनांशाच्छत्रुघ्नः संजज्ञेऽमितविक्रमः । ते सर्वे ववृधुस्तत्र वैवस्वतमनोः कुले ॥ संस्कृतास्ते सुताः सम्यग्वसिष्ठेन महौजसा । अधीतवेदास्ते सर्वे श्रुतवन्तस्तथा नृपाः॥ ९६ सर्वशास्त्रार्थतत्त्वज्ञा धनुर्वेदे च निष्ठिताः । बभुवुः परमोदारा लोकानां हर्षवर्धनाः॥ ९७ । युग्मं बभूवतुस्तत्र राजानौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नो तयोयुग्मं बभूव ह ॥ अथ लोकेश्वरी लक्ष्मीर्जनकस्य निवेशने । शुभक्षेत्रे हलोत्खाते शुनासीरे शुभेक्षणा ॥ ९९ बालार्ककोटिसंकाशा रक्तोत्पलकराम्बुजा । सर्वलक्षणसंपन्ना सर्वाभरणभूषिता॥ १००। धृत्वा वक्षसि चार्वङ्गी मालामम्लानपङ्कजाम् । सीतामुखे समुत्पन्ना बालभावेन सुन्दरी ॥१०१ तां दृष्ट्वा जनको राजा कन्यां वेदमयीं शुभाम् । उद्धृत्यापत्यभावेन पुपोष मिथिलापतिः ॥१०२ जनकस्य गृहे रम्ये सर्वलोकेश्वरप्रिया । ववृधे सर्वलोकस्य रक्षणार्थ सुरेश्वरी ॥ १०३ एतस्मिन्नन्तरे देवि कौशिको लोकविश्रुतः । सिद्धाश्रमे महापुण्ये भागीरथ्यास्तटे शुभे ॥ १०४ क्रतुं प्रवरमारेभे यष्टुं तत्र महामुनिः । वर्तमानस्य तस्याथ यज्ञस्यास्य द्विजन्मनः ॥ १०५ क्रतुविध्वंसिनोऽभूवन्रावणस्य निशाचराः । कौशिकश्चिन्तयित्वाऽथ रघुवंशोद्भवं हरिम् ।। १०६ आनेतुमैच्छद्धर्मात्मा लोकानां हितकाम्यया । स गत्वा नगरी रम्यामयोध्यां रघुपालिताम् १०७ नृपश्रेष्ठं दशरथं ददर्श मुनिसत्तमः । राजाऽपि कौशिकं दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः॥ १०८ पुत्रैः सह महातेजा ववन्दे मुनिसत्तमम् । धन्योऽहमस्मीति वदन्हर्षेण रघुनन्दनः ॥ १०९ अर्चयामास विधिना निवेश्य परमासने । परिणीय नमस्कृत्य किं करोमीत्युवाच तम् ॥ ११० ततः प्रोवाच हृष्टात्मा विश्वामित्रो महातपाः ॥
विश्वामित्र उवाचदेहि मे राघवं राजन्रक्षणार्थ क्रतोर्मम । साफल्यमस्तु मे यज्ञे राघवस्य समीपतः॥ तस्माद्रामं रक्षणार्थं दातुमर्हसि भूपते ।
११२ ईश्वर उवाचतच्छ्रत्वा मुनिवर्यस्य वाक्यं सर्वविदां वरः । प्रददौ मुनिवर्याय राघवं सहलक्ष्मणम् ॥ ११३ आदाय राघवौ तत्र विश्वामित्रो महातपाः । स्वमात्रैममतिप्रीतः प्रययौ द्विजसत्तमः ॥ ११४ ततः प्रहृष्टास्त्रिदशाः प्रयाते रघुसत्तमे । ववृषुः पुष्पवर्षाणि तुष्टुवश्च महौजसः॥ ११५ अथाऽऽजगाम हृष्टात्मा वैनतेयो महाबलः। अदृश्यभूतो भूतानां संप्राप्य रघुसत्तमम् ॥ ११६ ताभ्यां दिव्ये च धनुषी तूणौ चाक्षयसायको। दिव्यान्यस्त्राणि शस्त्राणि दत्त्वा च प्रययौ द्विजः तौ रामलक्ष्मणौ वीरौ कौशिकेन महात्मना । दर्शितां च महारण्ये राक्षसी घोरदर्शनाम्।। ११८ नाम्ना तु ताडकां देवि भार्या सुन्दररक्षसः । जन्नतुस्तां महावीरों वाणैर्दिव्यधनुश्युतैः॥११९
१२. 'न्यां देवम। २ च. क्रतोरर्थ । झ. फ. त्रयीनाथं । ३ झ. श्रमं शिष्यवृतः ।