________________
१८०८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेन्यासात्परतरं मन्त्रं नास्ति सत्यं ब्रवीमि ते । न्यासद्वयं प्रपत्तिः स्यात्पर्यायेण निबोध मे ॥ ११ द्वयोपदेशपूर्वेण सर्वकर्म समाचरेत् । द्वयाधिकारी न भवेत्सर्वमत्रेषु नार्हति ॥ तस्माद्वयमधीत्यैव तस्मान्मत्रमनुत्तमम् । श्रीमदष्टाक्षरं मत्रमभ्यसेविजसत्तमः ॥ मत्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव संग्रहात् । नैसर्गप्रणवार्थत्वात्स मत्रः प्रोच्यते बुधैः॥ नान्यत्र सर्वमत्रेषु प्रणवस्य स्वभावतः(ता)। पूत्यै सर्वत्र मत्राणां योजयेत्प्रणवं शुभम् ॥ ओंकारः प्रणवो ब्रह्म सर्वमश्रेषु नायकः । आदौ सर्वत्र युञ्जीत मत्राणां च शुभानने ॥ १६ स्वभावात्मणवं तस्मिन्मूलमन्त्रे प्रतिष्ठितम् । ओमित्येकाक्षरं पूर्व यक्षरं नम इत्यथ ॥ १७ ततो नारायणायेति पश्चैतानि यथाक्रमम् । एवमष्टाक्षरो मत्रो ज्ञेयः सर्वार्थसाधकः ॥ १८ सर्वदुःखहरः श्रीमान्सर्वमन्त्रात्मकः शुभः । ऋषिर्नारायणस्तस्य देवता श्रीश एव च ॥ १९ छन्दस्तु देवी गायत्री प्रणवो बीजमुच्यते । नित्यानपायिनी शक्तिस्तस्य श्रीरुच्यते बुधैः ॥ २० प्रथमं पदमोंकारो द्वितीयं नम उच्यते । तृतीयं नारायणायेति पदत्रयमुदाहृतम् ॥ २१ अकारश्चाप्युकारश्च मकारश्च ततः परम् । वेदत्रयात्मकः प्रोक्तः प्रणवो ब्रह्मणः पुरम् ॥ २२ अकारेणोच्यते विष्णुः श्रीरुकारेण उच्यते । मकारात्तु तयोर्दासः पञ्चविंशः प्रकीर्तितः ॥ २३ वासुदेवस्य रूपं तदकारेणोच्यते बुधैः । उकारेण श्रिया देव्या रूपं मुनिभिरुच्यते ॥ २४ मकारेणोच्यते जीवः पञ्चविंशाक्षरः पुमान् । भूतानि च कवर्गेण चवर्गेणेन्द्रियाणि च ॥ २५ टवर्गेण तवर्गेण ज्ञानगन्धादयस्तथा । मनः पकारेणैवोक्तं फकारेण त्वहंकृतिः ॥ २६ बकारेण भकारेण महान्प्रकृतिरुच्यते । आत्मा स तु मकारः स्यात्पञ्चविंशः प्रकीर्तितः ॥ २७ देहेन्द्रियमनःप्राणादिभ्योऽन्योऽनन्यसाधनः । भगवच्छेषभूतोऽसौ मकाराख्यः सचेतनः ॥२८ अवधारणवाच्येन उकारः कैश्चिदुच्यते । श्रीशब्दमपि तत्पक्षादुकारेणैव चोच्यते ॥ २९ भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी । अकारेणोच्यते विष्णुः श्रीशः कारणकारणम् ३० श्रीशः सर्वात्मनां शेषो जगदीजं परः पुमान् । जगत्कर्ता जगद्भर्ता ईश्वरो लोकबान्धवः ॥ ३१ जगतामीश्वरी नित्या विष्णोरनपगामिनी । माता सर्वस्य जगतः पत्नी विष्णोर्मनोरमा ॥ ३२ जगदाधारभूता श्रीरुकारेणैव चोच्यते । मकारेण तयोर्दासः क्षेत्रज्ञः प्रोच्यते बुधैः॥ शानाश्रयो ज्ञानगुणश्वेतसः प्रकृतेः परः। न जातो निर्विकारश्च ह्येकरूपः स्वरूपभाक् ॥ ३४ अणुनित्योऽव्याप्यशीलश्चिदानन्दात्मकस्तथा । अहमर्थोऽव्ययः क्षेत्री भिन्नरूपः सनातनः॥३५ अदाह्योऽच्छेद्यो ह्यक्लेद्यो ह्यशोष्योऽक्षर एव च । एवमादिगुणैर्युक्तः शेषभूतः परस्य वै ॥ ३६ मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा । दासभूतो हरेरेव नान्यस्यैव कदाचन ॥ एवं दासत्वमेवास्य मध्यमेवावधार्यते । इत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयाऽनघ । विवृते प्रणवस्यार्थे मत्रैशेषेण वै शुभे । परस्य दासभूतस्य स्वातन्त्र्यं न हि विद्यते ॥ ३९ तस्मान्महदहंकारं मनस्यपि निवर्तयेत् । स्त्रोपायबुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते ॥ ४० अहंकृतिर्मकारः स्यानकारस्तनिषेधकः । तस्मात्तन्मनसैवास्य अहंकारविमोचनम् ॥ ४१ मनसा सर्वसिद्धिः स्यादन्यथा नाशमानुयात् । मनसा सहितं किंचित्तदहंकार उच्यते ॥ ४२ साहंकारेण युक्तस्य मुखं किंचिन्न विद्यते । अहंकारविमूढात्मा अन्धे तमसि मजति ॥ ४३
१ स. अ. 'वान्मनविदुच्य । २ च. प्र. 'ज्ञः पुर' । ३ च. इ. 'अयोपेग । ४ झ. अ. °ते । स्वाह ।