________________
२३६षट्त्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१७३३ तीर्थयात्रां प्रतिदिनं तत्र कुर्वन्स वत्सरम् । न प्राप सर्वतीर्थानि तीर्थ काश्यां पदे पदे ॥ ६४
अथैकदा ता मणिकर्णिकायां माध्यंदिनस्नानविधि विधाय । प्रदक्षिणीकृत्य शिवालयं तं जातश्रमाः पूर्णदृशो निपेतुः ॥ काशीपतिः कारुणिकः कराभ्यामादाय मूर्धानमतीव हार्दात् ।
आगत्य वेगाद्युगपञ्च तासामोंकारमुच्चारयति स्म कर्णे ॥ इति श्रीमहापुराणे पान उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे काशीमाहात्म्याख्यानं नाम
पश्चत्रिंशदधिकद्विशततमोऽध्यायः ।। २३५ ॥ (१७) आदितः श्लोकानां समष्ट्यङ्काः-४३५८३
भय षट्त्रिंशदधिकद्विशततमोऽध्यायः ।
पसिष्ठ उवाचमृकण्डुर्विधिवत्कृत्वा मातॄणामौर्ध्वदेहिकम् । उवास सुचिरं कालं काश्यामेव महामनाः॥ १ तस्य पुत्रो महातेजा मार्कण्डेय इति श्रुतः । प्रसादादेव रुद्रस्य मरुद्वत्यामजायत । मार्कण्डेयो मुनिः श्रीमानाराध्य तपसा शिवम् । दीर्घमायुः शिवाल्लब्ध्वा ददर्श प्रलयान्बहून् ।
दिलीप उवाचअनपत्यो मरुद्वत्यां मृकण्डुरिति हि त्वया । प्रोक्तः शिवप्रसादेन पश्चादाप कथं सुतम् ॥ ४ दीर्घायुरभवत्सोऽपि कथमीशप्रसादतः । विस्तराच्छ्रोतुमिच्छामि वदैतन्मुनिपुंगव ॥ ५
वसिष्ठ उवाचशृणु राजन्प्रवक्ष्यामि मार्कण्डेयसमुद्भवम् । अनपत्यो मृकण्डुश्च भार्यया स महामुनिः॥ ६ शंकरं तोषयामास तपसा नियमेन च । तुश्वाऽऽह पिनाकी तं भार्यया सहितं मुनिम् ।। मत्तो वरं गृहाणेति सोऽपि वत्रे वरं मुनिः॥
मृकण्डुरुवाचयतो मे भगवंस्तोत्रैस्तुष्टोऽतः परमेश्वर । अनपत्योऽहमिच्छामि पुत्रं त्वत्तो महेश्वर ॥ ८
श्रीशंकर उवाचकिमिहेच्छसि पुत्रं त्वं निर्गुणं चिरजीविनम् । आहोस्विदेकं सगुणं सर्वत्रं षोडशाब्दिकम् ॥ ९
वसिष्ठ उवाचइत्युक्तः सोऽपि धर्मात्मा नाहमिच्छामि निर्गुणम् । अल्पायुरपि पुत्रो वा सर्वज्ञोऽस्तु जगत्पते॥
- श्रीशंकर उवाचतहि ते भविसा पुत्रः षोडशायुः सुधार्मिकः । सर्वज्ञो गुणवाल्लोके कीर्तिमाज्ञानसागरः ॥ ११
वसिष्ठ उवाचएवमुक्त्वा ययौ देवः सोऽपि लब्धवरो मुनिः। प्रकामं संतुष्टमनाः प्रपेदे निजमाश्रमम् ॥ १२ भार्या तस्य चिरादासीदन्तर्वत्नी मरुद्वती । विधिवद्विहिते तेन गर्भाधानस्य कर्मणि ॥ १३ ततः पुंसवनं तेन स्पन्दनात्माक्शुभे दिने । गृह्योक्तविधिना सम्यक्ततः पुंसो विवृद्धये ॥ १४
।