SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ २३१ एकत्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १७२१ ३९ ततः स जलमाविश्य हत्वा तं जलवासिनम् । विदार्य हृदयं तस्य नापश्यदुदरेऽर्भकम् ॥ तदङ्गप्रभवं शङ्खमादाय रथमागमत् । ततः संयमनीं नाम यमस्य दयितां पुरीम् ॥ गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः । शङ्खनिर्द्वादमाकर्ण्य प्रजासंयमनो यमः ॥ तयोः सपर्या महतीं चक्रे भक्त्युपबृंहितः । उवाचावनतः कृष्णं सर्वभूताशयालयम् ॥ यम उवाच - लीलामनुष्ययोः कृष्ण युवयोः करवाणि किम् ॥ श्रीभगवानुवाच गुरुपुत्रमिहाऽऽनीतं निजकर्मनिबन्धनम् । आनयस्व महाराज मच्छासनपुरस्कृतः ।। वसिष्ठ उवाच - तथेति तेनोपनीतं गुरुपुत्रं यदूद्वहौ । दत्त्वा स्वगुरवे भूयो गृह्णीष्वेति तमूचतुः ॥ गुरुणैवमनुज्ञातौ रथेनानिलरंहसा । आयता स्वपुरं यातौ पर्जन्यनिनदेन वै । समनन्दन्प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ । अपश्यन्तो बहुहानि नष्टलब्धधना इव ॥ इत्थं परासुः सलिले प्रभासे निमज्ज्य पर्वण्यपि माघमासे । कृष्णप्रभावात्पुनराजगाम सांदीपनेस्तस्य मुनेः कुमारः ॥ अन्येऽपि पुनरायाता यमलोकादनेकशः । देवतानुग्रहं प्राप्य मया वक्तुं न शक्यते ॥ दिलीप उवाच सम्यगुक्तमहो चित्रमेतत्प्रश्नत्रयं मुने । चरितं पुष्करस्याद्य प्रभावो रामकृष्णयोः । सूर्यान्वयानामवनीपतीनां कोटीररत्नाश्चितपादुकाय । इक्ष्वाकुगोत्रैकहिते रताय नमो वसिष्ठाय मुनीश्वराय । सूत उवाच - इति कृत्वा नमस्कारं गुरवे नृपपुंगवः । उपर्युपरि माघस्य माहात्म्यश्रवणोत्सुकः || दिलीपो नृपतिः श्रीमाञ्श्रेयसे यतमानसः । पुनः पप्रच्छ धर्मात्मा वसिष्ठं मुनिपुंगवम् ॥ दिलीप उवाच मृगविषाणमुनेश्वरितं मुने कथय लोकहिताय महात्मनः । स्पर्शभाषणदर्शनसंश्रयादखिलपापभिदः खलु तादृशः ॥ गुरुरुवाच सम्यक् संपादितो वत्सौ भवद्भ्यां गुरुनिष्क्रयः । को नु युष्मद्विधगुरोः कामो नामावशिष्यते ।। गच्छन्तं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी ॥ ४६ वसिष्ठ उवाच इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे मांदीपनि कुमाराख्यानं ना मैत्रिशदधिकद्विशततमोऽध्यायः ॥ २३१ ।। (१३) आदितः श्लोकानां समथ्यङ्काः – ४३२७९ ४० ४१ ४२ २१६ ४३ ४४ ४५ ४७ ४८ ४९ ५० ५१ ५२ ५३ ५४ ५५
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy