SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ २२१ एकविंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १६९५ तदा निर्दग्धपापं त्वां द्वादश्यां पुण्यवासरे । अभिषिच्य शिवस्तोत्रपूतैरहं सुर ॥ ६३ कामवक्त्रोपमं वक्त्रं करिष्यामि तवानघ । देवतावदनो भूत्वा त्वं विद्याधरसत्तम ॥ ६४ अनया वरवर्णिन्या साकं क्रीड यथासुखम् । ज्ञातमाघप्रभावस्त्वं माघस्नानं सदा कुरु ॥ [*यथा मनोरथावाप्तिजायते तव सर्वदा ॥ वसिष्ठ उवाचइत्युक्त्वा भृगुगा तस्मै धर्मज्ञेन महात्मना । विद्याधराय राजेन्द्र पुनर्गाथा उदाहताः॥ ६६ भृगुरुवाचमाघस्नानविपन्नाशो माघस्नानरघक्षयः। सर्वव्रताधिको माघः सर्वदानफलप्रदः॥ ६७ माघो गर्जति यज्ञेभ्यो माघो योगाच्च गर्नति । तीवाच्च तपसो माघो भो विद्याधर गर्नति ॥६८ पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके । अविमुक्त प्रयागे च गङ्गासागरसंगमे ॥ ६९ यत्फलं दशभिर्वर्षेः प्राप्यते नियमैर्नरैः । तत्फलं प्राप्यते माघे व्यहस्त्रानान संशयः॥ ७० स्वर्गभोगे चिरं वासो येषां मनसि वर्तते । यत्र कापि जले तेस्तु स्नातव्यं मृगभास्करे ॥ ७१ आयुरारोग्यसंपत्तौ रूपे सुभगता गुणे । येषां मनोरथस्तैस्तु स्नातव्यं मृगभास्करे ॥ ७२ ये तु बिभ्यति नरकादारिद्याब्धेस्त्रसन्ति ये । सर्वथा तेः प्रयत्नेन स्नातव्यं मृगभास्करे ॥ ७३ दारिद्यपापदौर्भाग्यपङ्कप्रक्षालनाय वै । माघस्नानान्न चान्योऽस्ति [पायः सुरसत्तम ॥ ७४ श्रद्धाहीनानि कर्माणि कृतान्यल्पफलानि वै । फलं ददाति संपूर्ण माघस्नानं यथाविधि ॥ ७५ अकामो वा सकामो वा यत्र कापि वहिर्जले । इहामुत्र च दुःखानि माघस्नायी न पश्यति॥७६ पक्षद्वये यथा चन्द्रः क्षीयते वर्धते तथा । पातकं क्षीयते माघे पुण्यराशिर्विवर्धते ॥ ७७ यथाऽब्धौ खलु जायन्ते रत्नानि विविधानि च । आयुर्वित्तं कलत्रादिसंपदो माघतस्तथा॥७८ कामधेनुर्यथा कामं चिन्तामणिश्च चिन्तितम् । माघस्नानं ददातीह तद्वत्सर्वमनोरथान् ॥ ७९ कृते तपः परं ज्ञानं त्रेतायां यजनं तथा । द्वापरे च कलौ दानं माघः सर्वयुगेषु च ॥ ८० सर्वेषां सर्ववर्णानामाश्रमाणां च भूपते (सर्वदा) । माघस्नानं हि धर्मस्य धाराभिः खलु वर्षति।। वसिष्ठ उवाचइति वाक्यं भृगोः श्रुत्वा तस्मिन्नेवाऽऽश्रमे सुरः। सहैव भृगुणा माघे गिरिनिर्झरिणीहदे ॥ ८२ यथोक्तविधिना स्नानमकरोद्भार्यया सह । भृगोरनुग्रहात्सोऽथ संप्राप्य मनसेप्सितम् ॥ ८३ देवतावदनो भूत्वा मुमुदे मणिपर्वते । आजगाम भृगुर्विन्ध्यं तमनुग्राह्य हर्पितः ॥ ८१ मणिमयगिरिसिन्धौ स्नानमात्रेण माघे मदनवदनतुल्यस्तत्र विद्याधरोऽभूत् । क्षपितनियमदेहो विन्ध्यपादावती? भृगुरपि सह शिष्यराजगामाथ रेवाम् ॥ * इदमधे र. ल. पुस्तकस्थम् । १ झ. ज. व्यं मकरे ग्वौ । आ ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy