________________
१६५८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेतदैव गरुडारूढः श्रीविष्णुः समुपागतः । विमानैः स्वगणैः सार्धं तावद्भिर्दीप्तिभास्करैः॥ ३२ ते तं दृष्ट्वा समायान्तं विमानगणसंयुतम् । वपुषा दिव्यरूपेण दण्डवत्पतिता भुवि ॥ ३३ तुष्टुवुश्च द्विजाः सर्वे दिव्यज्ञानवपुर्धराः । तं दिव्यरूपिणं देवं देववन्द्यपदाम्बुजम् ॥ ३४ ब्राह्मणा ऊचु:
नमस्तेऽतसीपुष्पसंकाशभासं तनुं बिभ्रते पीतवासोहताय । लसत्कुण्डलपोतनानोपलाय श्रुतौ चञ्चलाव्यापिनीलाम्बुदाय ॥ ३५ भक्तिस्त्वदीया किल कल्पवल्ली समाश्रिता यच्छति चित्तवाञ्छितम् ।। यथा तथैषा किल कोशला विभो जनैरु(ना उ)भे ते कृपया तवाऽऽप्यते(मुयुः)३६ वन्दामहे ते चरणारविन्दं वृन्दारकैर्वन्दितमीश्वराद्यैः। विचिन्त्यमानं हृदि योगिवृन्दैः कन्दं परानन्दभुवो विमुक्तेः॥ प्राप्ताः कामं श्रीपते त्वत्स्वरूपं श्रीवत्साद्यैर्लक्षितं चारुचिः। वाञ्छामस्ते दासभावं तथाऽपि प्रायः सर्वेरादृतं नारदाद्यैः॥ यत्सौख्यं ते दासभावं गतानां तन्नो लक्ष्म्या वक्षसोऽन्तर्वसन्त्याः। तज्जानाति श्रीपते श्रीमहेशो नान्यो लोके येन तच्चानुभूतम् ॥ । मध्येऽस्माकं श्रीपते सेवकानां नीरागाणामप्यसौ माननीयः। अस्मात्तं ते नारदाद्या मुनीशास्वद्भक्त्याप्त्यै लोकनाथं भजन्ते ॥ कामं ब्रह्मानन्दमाप्तोऽन्तरात्मा त्वदास्ये नो तृप्तिमायाति शंभुः। वारं वारं त्वद्गुणानुग्रहीतुने(ता नृ)त्यत्युच्चैस्त्वत्परो भावयुक्तः ॥ हेतोरस्मादेहि नः स्वस्य दास्यं यत्प्राप्तानां नोर्मयः संभवन्ति । त्वच्चिदाङ्गो द्वारपालौ त्वदीयौ मोहाद्वामः प्रीय(द्भष्टौ प्रापि)तौ तत्स्वकीयम्(धाम) लोकादस्मादन्तरेण त्वदिच्छां त्वल्लोकानां नोद्यते चाऽऽशुपातः।
को जानीयात्तावकीमत्र मायां दुर्विज्ञेयां ब्रह्मशादिदेवैः ॥ नारद उवाचएवं तैः स्तूयमानः स प्रभुर्निजपदोन्मुखः । उवाच तान्दाक्षिणात्यान्मेघगम्भीरया गिरा ॥ ४४
श्रीभगवानुवाचभो भो द्विजा भवन्तोऽस्याः कोशलायाः प्रसादतः। सारूप्यमपि मे प्राप्ता दासभावं च यास्यथ अद्यप्रभृति भो विप्रास्तीर्थमेतदनुत्तमम् । दक्षिणकोशलेत्युच्चैर्नाम्ना ख्यातं भविष्यति ॥ ४६ यत्र दाशरथिर्भूत्वा निन्य]हनिष्यद्दशाननम् । सा कथ्यते मुनिवरैः सर्वैरुत्तरकोशला ॥ ४७ [*विपन्नो ज्ञानवान्यस्यां वैकुण्ठमधिरोहति । विनाऽपि तद्वसेद्योऽस्यां सोऽपि स्वर्ग च गच्छति इमां ततो दशगुणामाहुर्दक्षिणकोशलाम्] । एकादशगुणामेके समामाहुर्मुनीश्वराः॥ ४९ इयानेव विशेषोऽस्ति तस्या अस्या मतिर्मम । तस्यां मृतं नयन्त्यन्ते वैकण्ठं मामका गणाः॥५० अस्यां मृतं स्वयमहमनन्यपदमानसम् । आरोप्य गरुडं दत्त्वा सारूप्यं प्रापयामि तत् ॥ ५. .
* धनुश्चिहान्तर्गतः पाठः क. ख. ज. पुस्तकस्थः ।