________________
१६२० महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेगृहे मम मनः पुत्र रमते नाद्य वार्धके । आनीतस्य वनाबद्ध्वा गजस्येव नृपालये ॥ ५० तवानुजः सुशर्माऽयं कुटुम्ब धारयिष्यति । आवाभ्यामुज्झितं विद्याश्रीकुलाभ्यां यथा नरम्५१ प्रवजन्तं तु मामेव तव माता पतिव्रता । अनुयास्यति मार्तण्डं यथा कान्तिर्दिनात्यये ॥ ५२ तस्मादावामविज्ञातौ तया तात तवाम्बया । गच्छावश्चिन्तयन्तो श्रीहरेः पादसरोरुहम् ॥ ५३
नारद उवाचइत्यालोच्य मुमुक्षू तो निशीथे तमसाऽऽकृते । सुप्तं कुटुम्बमुत्सृज्य गृहानिर्याय जग्मतुः ॥ ५४ सहैव पर्यटन्तौ तौ तत्तीर्थे निरहंकृती । शिवेऽत्र शिवदे तीर्थे शक्रप्रस्थे समीयतुः ॥ ५५ अत्राऽऽगतः स्वविहितान्पूर्वजन्मनि यूपकान् । विष्णुशर्मा समालोक्य सस्मार हरिसंगमम्॥५६ ऊचे च पितरं धीमाञ्शक आसमहं पुरा । मयाऽत्र विहिता यज्ञा माधवप्रीणनेच्छया ॥ ५७ अत्रैव मे प्रसन्नोऽभूत्केशवो भक्तवत्सलः । संतोषिता मणिप्रथर्द्विजाः सप्तर्षयश्च मे ॥ ५८ तैरेव वैष्णवी भक्तिर्दत्ता मोक्षो भवेऽत्र च । विष्ण्वादिभिः समस्तस्तु तीर्थान्यत्र कृतानि वै ५९ सर्वतीर्थमयं तीर्थमिन्द्रप्रस्थमिदं कृतम् । अत्रैव मे मृतिश्चोक्ता तैरेव मुनिपुंगवैः ॥ ६० ततो हरिपदप्राप्तिरेतत्सर्व स्मराम्यहम् । इमे गङ्गासरस्वत्यौ निजलोकाद्विरिश्चिना ॥ ६१ समानीते ययोर्योगे प्रयागोऽयं निगद्यते । एषा काशी शिवपुरी प्रयागात्पूर्वदेशके ॥ ६२ द्विपञ्चाशद्धनुर्मात्रे मृतो यस्यां न जायते । काश्याः पश्चिमके भागे धनुषामेकविंशतिः(तौ)॥६३ शिवकाची शिवेनैषा स्थापिता मृतमुक्तिदा । गोकर्णाख्यमिदं क्षेत्रं शंभोः परमवल्लभम् ॥ ६४ धर्नुयप्रमाणे तु भूमिभागे व्यवस्थितम् । इयं द्वारवती पुण्या तीर्थराजस्य पश्चिमे ॥ ६५ धनुषां सप्ततिर्य(तौ यत्र मृतो भावी चतुर्भुजः। अतोऽसौ पूर्वदिग्भागे कोशला जनवत्सला६६ अष्टादशधनुर्मात्रे दृश्यते पुण्यदर्शना । एतन्मधुवनं तात स्थापितं विष्णुना स्वयम् ॥ ६७ कोशलापश्चिमे भागे दशचापप्रमाणतः । अत उत्तरतस्तात नरनारायणास्पदम् ॥ एतदेकादशधनुर्भूमिदेशे च तिष्ठति । एतत्तीर्थ हरिद्वारमतो दक्षिणतः स्थितम् ॥ त्रिंशद्धनुर्महीदेशे दृश्यते देवदुर्लभम् । एतत्तु पुष्करं नाम तीर्थ तीर्थशिरोमणिः ॥ द्वादशेष्वासमात्रे भूभागे भोस्तात तिष्ठति । प्रयागादेकगव्यूतिः तौ]सप्तर्षीणां महात्मनाम् ॥७१ पूर्वस्यां दिशि तीर्थानि सप्त तत्तीर्थसप्तकम् । तीर्थसप्तककाश्योस्तु सन्ति तीर्थान्यनेकशः ॥ ७२ पदे पदे येषु मृतो जायते स चतुर्भुजः । प्रयागादेकगव्यूतिमात्रे पश्चिमभूतले ॥ ७३ निगमाद्वोधकं नाम तीर्थ गुरुकृतं मया । तीर्थसप्तकनिगमोद्धोधयोरन्तरे महत् ॥ ७४ इन्द्रप्रस्थमिदं क्षेत्रं स्थापितं दैवतैः पुरा । पूर्वपश्चिमयोस्तात एकयोजनविस्तृतम् ॥ ७५ कालिन्द्या दक्षिणे यावद्योजनानां चतुष्टयम् । इन्द्रप्रस्थस्य मर्यादा कथितैषा महर्षिभिः ॥ देवत्रय्यां च यो ह्यत्र त्यजत्यङ्गं भवत्यजः।
श्रीनारद उवाचपुत्रस्यैतद्वचः श्रुत्वा शिवशर्मा शिवे द्विजः । प्रत्याह संदिहानस्तं स्वपुत्र सत्यवादिनम् ॥ ७७
शिवशर्मोवाचकथमेतद्विजानीयां त्वं पुराऽऽसीः सुरेश्वरः । त्वमत्र कृतवान्यज्ञान्मणिभिस्तोषिता द्विजाः ७८
, झ. मुक्तिदायिका । २ . झ. 'नुर्यत्र प्र ।
७६