SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ .. 6MM महामुनिश्रीव्यासप्रणीनं [६ उत्तरखण्डेपश्चादभन्महाघोपो निर्घोषितदरीतटः । अवातरत्ततः कश्चित्पक्षी गगनगवरात् ॥ २६ शारदानीरदच्छायः कजलानामिवोचयः । तमसामिव संघानः पक्षच्छेदीव पर्वतः ॥ २७ अक्टभ्य क्षितिं पद्भया पक्षी मां प्रणनाम सः। आनीय पद्ममम्लानमसो मत्पादयोव्यधात् ॥ अथासो स्पष्टया वाचा पक्षी स्तोत्रमुदी(द)रयत् ॥ पक्ष्युवाच जय देव चिदानन्द सुधासिन्धो जगत्पते । सदासद्भावनासङ्गकल्लोलोनन्तवैभव ॥ अद्वैतवासनामत्या मलत्रयविवजिन । जितेन्द्रियपराधीन समाधिप्राप्यविग्रह ॥ निरुपाये विनिर्मुक्त निराकार निरामय । निःसीम निरहंकार निरावरण निर्गुण ॥ शरणागतसंत्राणप्रवीणचरणाम्बुज । भीमभालमहाव्यालज्वालादग्धमनोभव ॥ कुठारभिन्न दैत्येन्द्र गण्डपितमहाविभो(प)। त्रिपुरप्रमदाभालसिन्दूरोद्धूलिमार्जन ॥ कात्यायनीकुचाम्भोजवरकुङ्कुमचर्चित । नमः प्रमाणदूराय नमः प्रामाण्यरूपिणे ।। नमश्चैतन्यनाथाय नमत्रैलोक्यरूपिणे । वन्दे तब पदाम्भोज योगिप्रवरचुम्बितम् ॥ अपार भवपापाब्धिपारावतरणाद्भुतम् । वाचस्पतिरपि स्तोत्रे भवतो न प्रगल्भते ॥ महबदनस्यापि फणीन्द्रस्य न चातुरी । वर्णने महादेव कोऽहमल्पमतिः खगः ॥ श्रीशिव उवाचस्तोत्रमनन्समाकर्ण्य कृतं तेन पतत्रिणा । तभवोचमहं कोऽसि कुतस्त्योऽसि विहंगम ॥ ३८ हेमेन मशः काये वर्णे काकेन संनिभः। प्रयोजनं यदुद्दिश्य प्राप्तोऽसीह तदुच्यताम् ॥ ३९ इति पक्षी मया पृरः प्रश्रयाननकंधरः। जगाद श्लक्ष्णया वाचा पक्षी वाक्यविदां वरः॥ ४० पझ्युवाचदेवेश धृजेटे विद्धि मां मरालं स्वयंभुवः । कर्मगा येन कार्य मे जातमाधुनिकं विभो ॥ ४१ तदाकर्णय मर्वज्ञ पृष्टं यदि तदुच्यते । मानसात्मरमः पृथ्वी यातः प्राप्तोऽस्मि संकटम् ॥ ४२ सौराष्ट्रनगरादारात्मरमि स्फुरदम्बुने । बालेन्दुखण्डधवलान्मृणालकवलानहम् ॥ ४३ आदाय लब्धसाहित्यो निरगां गगनं द्रुतः । विहायसस्ततस्तस्मादकस्मादपतं भुवि ॥ ४४ अथ मोहपरीतात्मा सर्वथा विकलेन्द्रियः । वेपमानवाहात्स्पृष्टः शीतः समीरणैः ॥ ४५ प्रबुद्धः पनने हेनुमपश्यन्नात्मनस्तदा । अहो किमेनदापन्नमद्य पातः कथं मम ॥ ४६ कालिमा यन कायेऽस्मिन्पककर्पूरपाण्डुरे । इत्यहं विस्मयाविष्टो यावत्कुर्वे विचारणाम् ॥ ४७ नावदम्बुम्हादाणीमश्रीपमहमीदृशीम् । उत्तिष्ठ हंस वक्ष्यामि कारणं पातकार्ययोः॥ ४८ अयोधाय समागन्य मया मध्ये मरोवरे । दृष्ट्वा रानीविनी रम्यां राजीवैः पञ्चभिर्युताम् ॥४९ कारणं प्रामारंभे कार्यस्य पतनस्य च । अथ तत्र घनश्यामान्स्वर्णवर्णाम्बरावृतान् ॥ ५० चतु जान्गदागवचक्रपङ्करुहायुधान् । किरीटहारकेयूरकुण्डलद्युतिचित्रितान् ॥ अद्राक्षमन्तरिक्षम्यान्पुरुषानयुतानि पद । नत्वा प्रदक्षिणीकृत्य पञ्चपद्मां सरोजिनीम् ।। आत्मीयं पानमारभ्य पृष्टं नदाखिलं मया ॥ A WW १ क. ल नन्दविग्रह । ।२ क.च. य वलमाधिल नि । ख. ज. . य बलमाहित्य नि
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy