SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ १५५८ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे ४१ ४२ ४ ३ ४४ ययौ स वरयानेन यत्राssस्ते दुग्धवारिधिः । तदन्त उदितानेकसूर्यकोटिसमप्रभम् ॥ इन्दीवरदलश्यामं लोकनाथं जगद्गुरुम् । शय्याफणिफणारत्नमरीच्या मिश्रतेजसम् ॥ विलोक्यमानन्दयुक्तं निर्भरप्रीतमानसम् । भावानुगैर्हगालोकैः श्रिया प्रेम्णेक्षितं मुहुः ॥ योगिभिः परितो जुष्टं ध्याननिस्पन्दतारकैः । स्तूयमानं महेन्द्रेण पराजेतुं विरोधिनः ॥ आम्नायवचसामन्ते ब्रह्मणो निःसृतैर्मुखात् । मूर्तिमद्भिर्वचोभिश्च गीयमानगुणोत्करम् ॥ संप्रीतं चाप्युदासीनमपि सर्वासु योनिषु । योगसंचितपुण्यानां यौगपद्येन जन्तुषु ॥ विलोकमानमात्मानमखिलं सचराचरम् । आमोदयन्तमालोकैरानन्दपरिपूरितैः ॥ आबिभ्राणं वपुर्व्यापि द्योतितं भोगिनस्त्विषा । इन्दीवरदलश्यामं ज्योत्स्नयेव नभःस्थलम् ॥ विलोक्य तं स तुष्टाव धिया बहुलया नतः ।। ४५ ४६ ४७ ४८ यम उवाच - ५२ नमः समस्तनिर्माण निर्मलीभूतचेतसे । वदनोद्गीर्णवेदाय विश्वरूपाय वेधसे ।। बलवेगसुदुर्धर्षदानवेन्द्रमदगुहे । नमः स्थितौ च सत्त्वाय विश्वाधाराय विष्णवे ।। नमः पातकसंघातजिष्णवेऽखिलदेहिनाम् । ईषदुन्मीलल्ललाटनेत्राग्निप्रभवार्चिषे ॥ त्वं हि सर्वस्य लोकस्य गुरुरात्मा महेश्वरः । विसृज्य वैष्णवान्सर्वानतस्त्वमनुकम्प से ॥ व्यापयन्निखिलं लोकं मायया परिबृंहितम् । न तया परिभूतोऽसि न च तत्प्रभवैर्गुणैः ॥ ५३ अन्तरा वर्तमानोऽपि न ताभ्यामभिभूयसे । दृशा विषयवर्तिन्या निगृहीतमना अपि तया फलाभिगामिन्या आत्मन्येवाभिलीयसे । [+न तवास्ति महिम्नोऽन्तो यथा निरवधिः स्वयम् मौनमेव प्रयुक्तं मे विषयोऽस्ति कथं गिराम् ] ॥ ५४ ५५ श्रीभगवानुवाच इति स्तुत्वा ततो वाक्यमिदमाह कृताञ्जलिः || ४९ ५० ५१ ५६ यम उवाच - ५७ त्वन्नियोगादमी मुक्ता देहिनो निर्गुणा मया । समादिश यदन्यन्मे कार्यमस्ति जगनुरो ॥ श्रीभगवानुवाच - इति विज्ञापितस्तेन तमाह मधुसूदनः । मेघगम्भीरया वाचा सिञ्चन्निव सुधारसैः ॥ + अयं श्लोकः क. ख. च. ज. झ. अ. ड. पुस्तकस्थः । अयं श्लोकः क. ख. ज. म. पुस्तकस्थः । १ क. ज. अ. लोको मया समयव । २ क. समम् । ५८ मधुसूदन उवाच - पापादुद्धार्यते लोकस्त्वया हि समवर्तिना । त्वयि विन्यस्तभारोऽहं नानुशोचामि देहिनः ॥ तदाचर निजं कर्म प्रयाहि स्वनिकेतनम् ॥ ५९ श्रीभगवानुवाच - इत्युक्त्वाऽन्तर्दधे देवः सोऽपि स्वं पुरमाययौ । [x सोऽपि स्वज्ञातिजान्सर्वान्निरयस्थाननेकशः ॥ उद्धृत्य वरयानेन विष्णुलोकं ययौ स्वयम् ] ॥ ६० इति श्रीमहापुराणे पाद्म उत्तरखण्डे मीतामाहात्म्ये तृतीयाध्यायमहिमकथनं नाम त्रिसप्तत्यधिकशततमोऽध्यायः ॥ १७३ ॥ ( ३ ) आदितः श्लोकानां समश्यङ्काः –३९३७५ r !
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy