SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ १५४६ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेसत्र स्नानं च दानं च कर्तव्यं विधिपूर्वकम् । यत्र स्नात्वा तु मुच्यन्ते महापातकिनोऽपि ये ॥२ तत्र श्राद्धं प्रकर्तव्यं स्वानां च हितमिच्छता । यत्र वै तु कृते श्राद्धे पितृलोके वसेद्धवम् ॥ ३ यत्र वै सागरो देवो नित्यं मिलति गङ्गया । ब्रह्महा तत्र मुच्येत किमन्यैरितरैरघैः ॥ ४ यत्र तीर्थ न जानन्ति लोका वै मन्दबुद्धयः । तदा वै मम नाम्ना च कर्तव्यं तीर्थमुत्तमम् ॥ ५ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये संगमाख्यतीर्थमाहात्म्यवर्णनं नाम षषष्टयधिकशततमोऽध्यायः ॥ १६६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३९०८८ अथ सप्तपश्यधिकशततमोऽध्यायः । श्रीमहादेव उवाचसंगमस्य समीपे तु सत्तीर्थ लोकविश्रुतम् । आदित्याख्यं परं तस्मान्न भूतं न भविष्यति ॥ १ यस्य वै दर्शनं कार्य स्नानं वै पुष्करेण तु । पूजनं चार्कपुष्पेण करवीरैस्तथा पुनः॥ तत्र श्राद्धं च दानं च कुर्युः मानवाः सदा । इदमादित्यकं तीर्थ पवित्रं पापनाशनम् ॥ दर्शनात्पुण्यदं तीर्थ महापातकिनामपि ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्य आदित्यतीर्थमाहात्म्यकथनं नाम सप्तषष्टयधिकशततमोऽध्यायः ॥ १६७ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३९०९१ अथाष्टषष्टयधिकशततमोऽध्यायः । ॥ श्रीमहादेव उवाचतस्मात्तीर्थात्परं तीर्थ नीलकण्ठेति विश्रुतम् । तस्य 2 दर्शनं कार्य मुक्तिं चैवेच्छता सदा ॥ १ बिल्वपत्रैस्तथा धूपैर्दीपैर्वाऽथ सुरेश्वरि । वाञ्छितं लभते मर्यो नीलकण्ठस्य दर्शनात ॥ २ उपवासपरो देवि निर्जनेऽसौ स्थितः सदा । यद्यद्वाञ्छन्ति ये लोकास्तेषां तत्तद्ददाति च ॥ *कलौ सा तु तदा देवि विख्याता काश्यपीति वै ।। इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये नीलकण्ठतीर्थमाहात्म्यकथनं नामाष्टपष्टयधिकशततमोऽध्यायः ॥ १६८ ॥ आदितः श्लोकानां समष्टयङ्काः-३९०९४ अर्थकोनसप्तत्यधिकशततमोऽध्यायः । श्रीमहादेव उवाचदुर्गया संगता यत्र देवि साभ्रमती नदी । संगमः सागरेणाथ स्नानं तत्र समाचरेत् ॥ १ * इदमर्धमधिकमिव भाति । फ, ‘न्दभागिनः । त' । २ फ. र तीर्थ न भ । ३ फ. 'च । धवलेश्वरात्प । ४ क. फ. "सप्रियो दें।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy