________________
१५०८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेएवं बहुतरं कालं राज्ञा तप्तं तपो महत् । प्रत्यक्षोऽहं तदा जातो वरार्थ वरवणिनि ॥ ९५ ब्रह्मदत्त शृणुष्व त्वं महद्वाक्यं नरेश्वर । यं यं वाञ्छयसे नित्यं तं तं दमि न संशयः॥ ९६ तेनोक्तं मम देवेश वाञ्छितं यदि दीयते । एक एव वरो देव दीयतां मम सर्वदा ॥ ९७ मम नाम्ना तु देवेशैतत्सरः संप्रजायताम् । तेन वाक्येन तुष्टेन वरो दत्तो मयाऽनघे ॥ ९८ तदाऽहं तेन वै साध निवसामि सुरेश्वरि । अत्र स्थित्वा निराहारा भक्तिं कुर्वन्त्यनेकशः॥९९ ददामि वाञ्छितान्कामान्यावदिन्द्राश्चतुर्दश । अत्राऽऽगत्य तु ये विमा रुद्रजाप्यादिकं च यत् ।। प्रकुर्वन्ति विशेषेण तेषां दाम शृणुष्व तत् । स्वीसौख्यं पुत्रसौख्यं च लक्ष्मीद्धिकरं पुनः १०१ यश ऐश्वर्यमेवापि तथा रोगादिनाशनम् । तत्सर्व प्राप्यते क्षिप्रं वाञ्छितं वै कलौ युगे ॥१०२ अस्मिन्कलौ युगे घोरे मद्भक्ता भुवि पार्वति । अत्राऽऽगत्य प्रकुर्वन्ति स्नानदानादिकाः क्रिया: ददामि वाञ्छितानान्सत्यं सत्यं सुरेश्वरि । ब्रह्मदत्तस्तु तन्नाम्ना द्वितीयं ब्रह्मचारिणम्॥१०४ गङ्गाधरं प्रतिष्ठाप्य उपित्वा दिनपञ्चकम् । स राजा गतवांस्तत्र स्वके राज्ये ततः पुनः ।।१०५ ब्रह्मदत्तस्तु विख्यातो लोके वै परमो महान् । राज्यं चकार धर्मज्ञो ह्ययुतं वर्षसंज्ञकम् ॥ १०६ ततो वै कतिकालं च राज्यं भुक्त्वा स वै पुमान् । गतवाशिवलोकं तं ब्रह्माख्यं पदमुत्तमम् ।। देवी द्वौ तत्र वर्तेते मम नामाभिधायकौ । एको वै ब्रह्मचारीशो ह्यन्यो गङ्गाधरः स्मृतः ॥१०८ मम स्थाने विशेषेण पूजां कुवन्ति ये जनाः। तेषां सर्व ददामीह वाञ्छितं नात्र संशयः॥१०९ स्थानमेव सदा लिङ्गं ज्ञातव्यं बुद्धिभिः सदा । तत्र पुष्पं च धूपं च नैवेद्यं विविधं तथा ॥११० यः करोति मम प्राज्ञः स सर्वं लभते ध्रुवम् । बिल्वपत्रैश्च पुष्पैश्च तथा वा चन्दनादिभिः।।१११ पूजां कुर्वन्ति मत्स्थाने तेषां सर्व ददाम्यहम् । य इदं शृणुयान्नित्यं ब्रह्मचारी कथानकम् ११२ इह लोके सुखं प्राप्य व्रजते शिवसंनिधौ । यत्र गङ्गाधरो देवो नित्यं तिष्ठति भूतिदः॥ ११३ ब्रह्मचारीशसंज्ञस्तु द्वितीयो वतेते सदा । ताभ्यां ध्यानसमायोगाच्छिवत्वमभुते ध्रुवम् ॥ ११४ दर्शनानश्यते रोगः पूजनादायुरानुयात् । स्नानासत्र तु देवेशि मुक्तिभागी न संशयः ॥ ११५ शृणु सुन्दरि वक्ष्यामि तीर्थ परममद्भुतम् । राजखन इति ख्यातं साभ्रमत्यां विशेषतः ॥ ११६ सूर्यवंशसमुत्पन्नो राजा वैकतमस्तथा । दुराचारी तु पापात्मा ब्राह्मणानां च निन्दकः ।। ११७ गुरुद्रोही सदाऽतुष्टो निन्दकः सर्वकर्मणाम् । परदाररतो नित्यं नित्यं विष्णुप्रदूषकः॥ ११८ प्रजापीडनकं नित्यं करोति बहुँघातकः । एवंविधः स दुष्टात्मा पृथिव्यां वर्तते सदा ॥ ११९ कतिचिच्च गते काले शृणु सुन्दरि तत्त्वतः। पापेन दैवयोगाच कुष्ठित्वं समजायत ॥ १२० निरीक्ष्य स्वशरीरं तु विचार्य च पुनः पुनः । किं कर्तव्यमिति ध्यायनितिचिन्तापरोऽभवत् ॥ कदाचिदैवयोगाच्च क्रीडार्थ गतवान्वने । तत्र साभ्रमतीतीरं समासाद्य स तिष्ठति ॥ १२२ तत्र स्नानं कृतं तेन पीतं पानीयमुत्तमम् । तेनोक्तं ते(दके)न संजातं शरीरं दिव्यसंज्ञकम्॥१२३ यथा स्वर्णमयी मूर्तिर्दश्यते नगनन्दिनि । तद्वदेव तु संजातः स राजा नात्र संशयः॥ १२४ दिव्यरूपमनुप्राप्य कियत्कालं ततो नृपः । राज्यं भुक्त्वा तु देवेशि गतो वै परमं पदम् ॥१२५ तदा तीर्थमिदं जातं राजखनेतिसंज्ञकम् । अत्र स्नानं प्रकुर्वन्ति दानं ये वै ददन्ति च ॥१२६ इह लोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम् । न रोगो वर्तते तेषां न शोकश्च कदाचन ॥
१ इ. अ. पुरुषो । २ झ. 'दा दुष्टो । ३ ज. फ. हुधा ततः । ए ।
: