SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १२० विंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । १४७९ राक्षसी योनिमामोति सकृन्मांसस्य भक्षणात् । षष्टिवर्षसहस्राणि विष्ठायां परिपच्यते ॥ २१ तन्मुक्तो जायते पापो विष्ठाशी ग्रामसूकरः । प्रवृत्तानां तु भक्षाणां कार्तिके नियमे कृते ॥ २२ अवश्यं प्राप्यते मोक्षो विष्णोस्तत्परमं पदम् । न कार्तिकसमो मासो न देवः केशवात्परः ॥२३ न वेदसदृशं शास्त्रं न तीर्थ गङ्गया समम् । न सत्येन समं वृत्तं न कृतेन समं युगम् ॥ २४ न तृप्ती रसनातुल्या न दानसदृशं सुखम् । न धर्मसदृशं मित्रं न ज्योतिश्चक्षुषा समम् ॥ २५ अव्रतेन नयेद्यस्तु मासं दामोदरप्रियम् । कर्मभ्रष्टः स विज्ञयो हीनयोनिषु जायते ॥ २६ कार्तिकः प्रवरो मासो वैष्णवानां सदा प्रियः । समुद्रगा नदी पुण्या दुर्लभा स्नानशालिनाम् २७ कुलशीलवती कन्या दुर्लभा दंपती नृणाम् । दुर्लभा जननी लोके पिता चैव विशेषतः ॥ २८ दुर्लभः साधुसंमानो दुर्लभो धार्मिकः सुतः । दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् ॥ २९ दुर्लभं गोमतीस्नानं दुर्लभं कार्तिकत्रतम्] । ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चन्द्रसूर्ययोः ॥ ३० यत्फलं लभते वत्स तत्फलं भूमिशायिनः । भोजयेविजदांपत्यं पूजयेच विलेपनः ॥ ३१ कम्बलानि च रत्नानि वासांसि विविधानि च । तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह। ३२ उपानहावातपत्रं कार्तिके देहि पावके । यः करोति नरो नित्यं कार्तिके पत्रभोजनम् ॥ ३३ न दुर्गतिमवाप्नोति यावदिन्द्राश्चतुर्दश । सर्वकामफलं तस्य सर्वतीर्थफलं लभेत् ॥ ३४ नचापि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात् । ब्रह्मा एष स्मृतः साक्षात्पालाशः सर्वकामदः ॥ ३५ मध्यम वर्जयेत्पत्रं कार्तिके शिखिवाहन । ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्निपत्रके ॥ ३६ ऐश्वरं वर्जयेत्पत्रं ब्रह्मविष्ण्वोरनुत्तमम् । सर्वपुण्यमवामोति शेषपत्रेषु भोजनात् ॥ ३७ भोजनान्मध्यपत्रे तु कपिलापयसस्तथा । प्राशनान्मुनिशार्दूल नरो नरकमामुयात् ॥ ३८ अज्ञानाद्भुञ्जते यस्तु शूद्रो वा कपिलापयः । कपिलां ब्राह्मणे दत्त्वा शुद्धो भवति कार्तिके ॥३९ तिलदानं नदीस्नानं सर्वदा साधुसेवनम् । भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् ॥ ४० मौनी पालाशभोजी च तिलस्नायी सदाक्षमी । कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ।। जागरं कार्तिके मासि यः करोत्यरुणोदये । दामोदराग्रे सेनानी!सहस्रफलं लभेत् ४२ पितृपक्षेऽन्नदानेन ज्येष्ठाषाढे च वारिणा । कार्तिके तत्फलं पुंसां परदीपप्रबोधनात् ॥ ४३ बोधनात्परदीपस्य वैष्णवानां च सेवनात् । कार्तिके फलमामोति राजसूयाश्वमेधयोः॥ ४४ नदीनानं कथा विष्णोर्वेष्णवानां च दर्शनम् । न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ४५ पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा । कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ॥ ४६ प्रयागो माघमासे तु पुष्करं कार्तिके तथा । अवन्ती माधवे मासि हन्यात्पापं युगार्जितम् ॥ ४७ धन्यास्ते मानवा लोके कलिकाले विशेषतः। ये कुर्वन्ति स्कन्द नित्यं पित्रर्थ हरिसेवनम्।। ४८ किं दत्तबेहुभिः पिण्डेगेयाश्राद्धादिभिः सुत । तारितास्तेन पितरो नरकाच न संशयः ॥ ४९ क्षीरादिनपनं विष्णोः क्रियते पितृकारणात् । कल्पकोटिं दिवं प्राप्य वसन्ति त्रिदशैः सह ५० कार्तिके नार्चितो यैस्तु कमलैः कमलेक्षणः । जन्मकोटिषु विप्रेन्द्र न तेषां कमला गृहे ॥ ५१ अहो मुष्टा विनष्टास्ते पतिताः कलिकंदरे । यैर्चितो हरिभक्त्या कमलैरसितैः सितैः॥ ५२ पअनेकन देवेशं योऽचयेत्कमलापतिम् । वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ॥ ५३ १ च. क्षत्रेण । २ क. च. ज. झ. जलम्नायी। ३ ख. °दितर्पणं वि'। ४ क. ख. ज. अ. कृष्णस्तु ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy