SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १३५२ महामुनिश्रीव्यासप्रणीतं-- [६ उत्तरखण्डेलोमश उवाच-(श्रीकृष्ण उवाच-) पापमोचनिको राजन्ये कुर्वन्ति नरोत्तमाः। तेषां पापं च यत्किचित्तत्सर्वच क्षयं व्रजेत् ॥ ४७ पठनाच्छ्वणाद्राजन्गोसहस्रफलं लभेत् । ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ ४८ व्रतस्य चास्य करणाझ्यो मुक्ता भवन्ति ते । बहुपुण्यं व्रतं ह्येतत्करणाव्रतमुत्तमम् ॥ ४९ इति श्रीमहापुराणे पान उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्गयुधिष्ठिरसंवादे चैत्रकृष्णपापमोचन्येकादशी माहात्म्यकथनं नामाष्टचत्वारिंशोऽध्यायः ।। ४८ ॥ आदितः श्लोकानां समष्टयङ्काः-३३१७५ अवैकोनपञ्चाशत्तमोऽध्यायः । 059 युधिष्ठिर उवाचवासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः । चैत्रस्य शुक्लपक्षे तु किंनाम्न्येकादशी भवेत् ॥ १ कृष्ण उवाचशृणुष्वैकमना राजन्कथामेतां पुरातनीम् । वसिष्ठः कथयामास दिलीपाय तु पृच्छते ॥ २ दिलीप उवाचभगवश्रोतुमिच्छामि कथयस्व प्रसादतः। चैत्रमासे सिते पक्षे किंनाम्न्येकादशी भवेत् ॥ ३ वसिष्ठ उवाचसाधु पृष्टं त्वया राजन्कथयामि तवाग्रतः। चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः॥ एकादशी पुण्यतमा पापेन्धनदवानला । शृणु राजन्कथामेतां पापघ्नीं पुण्यदायिनीम् ॥ पुरा नागपुरे रम्ये हेमहम्येविनिर्मिते । पुण्डरीकमुखा नाम निवसन्ति महोत्कटाः॥ तस्मिन्पुरे पुण्डरीको राजा राज्यं चकार सः । गन्धर्वैः किंनरेश्चैव अप्सरोभिश्च सेविते ॥ ७ वराप्सरास्तु ललिता गन्धर्वो ललितस्तथा । उभी रागेण संरक्तौ दंपती कामपीडितौ ॥ ८ रेमाते स्वगृहे रम्ये धनधान्ययुते संदा । ललितायाश्च हृदये पतिर्वसति सर्वदा ॥ ९ हृदये तस्य ललिता नित्यं वसति भामिनी । एकदा पुण्डरीकोऽथ क्रीडन्स सदसि स्थितः १० गीतं गानं प्रकुरुते ललितो दयितां विना । पादबन्धः स्खलजिहो बभूव ललितां स्मरन् ॥११ मनस्तापं विदित्वाऽस्य कर्कटो नागसत्तमः । पादवन्धच्युतिं तस्य पुण्डरीके न्यवेदयत् ॥ १२ श्रुत्वा कर्कोटकवचः पुण्डरीको भुजंगराट् । क्रोधसंरक्तनयनो बभूवातिभयंकरः॥ शशाप ललितं तत्र गायन्तं मदनातुरम् ॥ पुण्डरीक उवाचराक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः । यतः पत्नीवशोपेतो गायमानो ममाग्रतः॥ १४ वसिष्ठ उवाचवचनात्तस्य राजेन्द्र रक्षोरूपो बभूव सः । रौद्राननो विरूपाक्षो दृष्टमात्रो भयंकरः॥ १५ वहुयोजनविस्तीर्णो मुखं कंदरसंनिभम् । चन्द्रसूर्यनिभे नेत्रे ग्रीवा पर्वतसंनिभा ॥ नासारन्ध्रे तु विवरे अधरौ योजनार्धको । शरीरं तस्य राजेन्द्र उच्छ्रितं योजनाष्टकम् ॥ १७ . १५ १ ङ. तदा।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy