SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ६ महामुनिश्रीव्यासमणीत [ आदिखण्डस्वामेव भगवन् सर्वे प्रविशन्ति युगक्षये । देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ॥ १७ त्पयि सर्वेश दृश्यन्ते मुरा ब्रह्मादयोऽनघ । सर्वस्त्वमसि लोकानां कर्ता कारयिताऽन्वहम् ॥१८ स्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः। एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् ॥ १९ स्वत्मसादान्महादेव तपो मे न क्षरेत वै । ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ॥ २० सपस्ते वर्धतां विष मत्मसादात्सहस्रधा । आश्रमे चेह वत्स्यामि त्वया सार्ध महामुने ॥ २१ सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् । न तेषां दुर्लभं किंचिदिह लोके परत्र वा ॥ २२ गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः । एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥ २३ ततस्त्वौशनसं गच्छेत्रिषु लोकेषु विश्रुतम् । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ २४ कार्तिकेयश्च भगवास्त्रिसंध्यं किल भारत । सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया ॥ २५ कपालमोचनं तीर्थ सर्वपापप्रणाशनम् । तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥ अमितीर्थ ततो गच्छेत्स्नात्वा च भरतर्षभ । अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥ २७ विश्वामित्रस्य तत्रैव तीर्थ भरतसत्तम । तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ॥ ब्रह्मयोनि समासाद्य शुचिः प्रयतमानसः। तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ॥ २९ पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः । ततो गच्छेत राजेन्द्र तीर्थ त्रैलोक्यविश्रुतम् ।। ३० पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ ३१ 'अज्ञानाज्ज्ञानतो वाऽपि स्त्रिया वा पुरुपेण वा । यत्किचिदशुभं कर्म कृतं मानुपबुद्धिना॥ तत्सर्व नश्यते तत्र स्नातमात्रस्य भारत ॥ अश्वमेधफलं चापि लभते स्वर्गमेव च । पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ॥ ३३ सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथदकम् । उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ॥ ३४ पृथूदके जप्यपरो नैव संसरणं लभेत् । गीतं सनत्कुमारेण व्यासेन च महा मना ॥ वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् । पृथूदकात्पुण्यतमं नान्यत्तीर्थ नरोत्तम ॥ ३६ एतन्मेध्यं पवित्रं च पावनं च म संशयः। तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः ॥ ३७ पृथूदके नरश्रेष्ठ प्राहुरवं मनीषिणः । मधुपूरं तु तत्रैव तीर्थ भरतसत्तम ।। तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ततो गच्छेन्नरश्रेष्ठ तीर्थ देव्यां यथाक्रमम् । सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् ॥ त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ॥ अग्निष्टोमातिरात्राभ्यां फलं चैव समश्नुते । पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥ ४० अवकीर्ण च तत्रैव तीर्थ कुरुकुलोदह । विप्राणामनुकम्पार्थ दर्भिणा निर्मितं पुरा ।। ४१ व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः । क्रियामत्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः॥ ४२ क्रियामत्रविहीनोऽपि तत्र स्नात्वा नरर्षभ । चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम् ॥ ४३ समुद्राश्चापि चत्वारः समानीताश्च दर्मिणा । तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात् ॥ ४४ फलानि गोसहस्राणां चतुर्णा विन्दते च सः। ततो गच्छेत राजेन्द्र तीर्थ शतसहस्रकम् ॥ ४५ साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते । उभयोहि नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ४६ दानं वाऽप्युपवासो वा सहस्रगुणितो भवेत् । ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ॥ ४७ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । सर्वपापविशुद्धात्मा अमिष्टोमफलं लभेत् ॥
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy