________________
१७
२७ सप्तविंशोऽध्यायः ]
पद्मपुराणम् । अथ वामनकं गत्वा त्रिषु लोकेषु विश्रुतम् । तत्र विष्णुपदे स्नात्वा समभ्यर्थ्य च वामनन् ॥९६ सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् । कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः ॥ ९७ पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् । तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते ॥ ९८ अमराणां हृदे स्नात्वा समभ्यामराधिपम् । अमराणां प्रभाषेन स्वर्गलोके महीयते ॥ ९९ शालिहोत्रस्य राजेन्द्र शालिसूर्ये यथाविधि । स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥ १०० श्रीकजं च सरस्वत्यां तीर्थ भरतसत्तम । तत्र नात्वा नरो राजन्नाग्निष्टोमफलं लभेत् ॥ १०१ ततो नैमिषिकुजं च समासाघ सुदुर्लभम । ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः ॥ १०२ तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रे गताः पुरा । ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम ॥ १०३ ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् । तस्मिन्कुञ्ज नरः स्नात्वा गोसहस्रफलं लभेत् ॥
इति श्रीमहापुराणे पाम आदिखण्डे पविंशोऽध्यायः ॥ २६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१३२५
अथ सप्तविंशोऽध्यायः ।
%D
.
9
नारद उवाचसनो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् । कन्यातीर्थे नरः स्नात्वा अमिष्टोमफलं लभेत् ।। १ ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् । तत्र वर्णावरः सात्वा ब्राह्मण्यं लभते नरः॥ ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम् ।। नतो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम् । नत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ।।। सप्तसारस्वतं तीर्थ ततो गच्छेन्नराधिप । यत्र मङ्कणकः सिद्धो ब्रह्मपिर्लोकविश्रुतः ॥ ४ पुरा मङ्कणको राजन्कुशाग्रेणेति विश्रुतम् । क्षतः किल करे राजस्तस्य शाकरसोऽस्रवत् ॥ ५ स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः । प्रनृत्तः किल विपिविस्मयोत्फुल्ललोचनः ॥ ६ ततस्तस्मिन्मनृत्ते वै स्थावरं जङ्गमं च यत् । प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ ब्रह्मादिभिस्ततो देवऋषिभिश्च तपोधनः । विज्ञप्तो वै ऋपरर्थे महादेवो नराधिप । नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ।।। ततो देवो मुनि दृष्ट्वा हर्पाविष्टन चेतसा । नृत्यन्तमब्रवीचैनं सुराणां हितकाम्यया ॥ अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् । हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ॥
ऋषिरुवाच-- तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम । किं मे नान्यः समो ब्रह्मन्क्षताच्छाकरसोऽस्रवत् ॥ ११ यं दृष्ट्वा संपनृत्तोऽहं हर्षेण महताऽन्वितः । तं प्रहस्याब्रवीदेव ऋषि रागेण मोहितम् ॥ १२ अहं तु विस्मयं विष न गच्छामीह पश्य माम् । एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा ॥ ११ अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ । ततो भस्म क्षताद्राजनिःसृतं हि(हे)मसंनिभम् ॥१४ तदृष्ट्वा वीडितो राजन्स मुनिः पादयोर्गतः । नान्यं देवमहं मन्ये रुद्रात्परतरं महत् ॥ १५ सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् । त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् ॥ १६
१ ख. ञ, ट. 'म। कुशाग्रेण स मे ब्रह्मन्कराच्छा
।