SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॐ अर्हम् । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं प्राकृतव्याकरणम् । अथ प्राकृतम् ॥ ८।१।१॥ अथशब्द आनन्तर्यार्थोऽधिकारार्थश्च ॥ प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतम् । संस्कृतानन्तरं प्राकृतमधिक्रियते ॥ संस्कृतानन्तरं च प्राकृतस्यानुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते च प्रकृतिप्रत्ययलिङ्गकारकसमाससंज्ञादयः संस्कृतवद्वेदितव्याः ॥ लोकाद् इति च वर्तते । तेन ऋ-ऋ-ल-ल-ऐ-औ-ङ–ज-श-षविसर्जनीय-प्लुतवों वर्णसमानायो लोकादवगन्तव्यः । ङौ स्ववर्दीसंयुक्तौ भवत एव । ऐदौतौ च केषांचित् । कैतवम् । कैअवं । सौन्दर्थम् । सौंअरिअं॥ कौरवाः । कौरवा ॥ तथा अस्वरं व्यञ्जन द्विवचनं चतुर्थीबहुवचनं च न भवति ॥ १॥ बहुलम् ॥ ८।१।२॥ बहुलम् इत्यधिकृतं वेदितव्यम् आ शास्त्रपरिसमाप्तेः ॥ ततश्च । क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिद् अन्यदेव भवति । तच्च यथास्थानं दर्शयिष्यामः ॥२॥ आर्षम् ॥ ८।१।३॥ ऋषीणाम् इदम् आर्षम् । आर्ष प्राकृतं बहुलं भवति । तदपि यथास्थानं दर्शयिष्यामः । आर्षे हि सर्वे विधयो विकल्प्यन्ते ॥ ३ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy