SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १७२ प्राकृतव्याकरणम् [सू. ८-४-४३१ स्त्रियां तदन्ताड्डीः ॥८४।४३१॥ ____अपभ्रंशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्तप्रत्ययान्तेभ्यो डीः प्रत्ययो भवति ॥ पहिआ दिट्ठी गोरडी दिछी मग्गु निअन्त । अंसूसासेहिं कञ्चुआ तिंतुव्वाण करन्त ॥ एक कुडुल्ली पञ्चहिं रुद्धी ॥ ४३१ ।। आन्तान्ताड्डाः ८।४ । ४३२॥ अपभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात् डाप्रत्ययो भवति । ड्यपवादः॥ पिउ आइउ सुअ वत्तडी झुणि कन्नडइ पइट्ठ। तहो विरहहो नासन्तअहो धूलडिआ वि न दिट्ठ ॥ ४३२ ॥ अस्येदे ॥ ८।४।४३३ ॥ - अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योकारस्तस्य आकारे प्रत्यये परे इकारो भवति ॥ धूलडिआ वि न दिट्ठ ॥ स्त्रियामित्येव । झुणि कन्नडइ पइट्ठ ॥ ४३३ ॥ .. युष्मदादेरीयस्य डारः ॥ ८।४।४३४ ॥ . अपभ्रशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति ॥ संदेसें काई तुहारेण जं सङ्गहो न मिलिज्जइ । सुइणन्तरि पिएं पाणिएण पिअ पिआस किं छिज्जइ ॥ 'दिक्खि अम्हारा कन्तु । बहिणि महारा कन्तु ॥ ४३४ ॥ । अतोत्तुलः ॥ ८॥ ४॥ ४३५ ।। . अपभ्रंशे इदंकिंयत्तदेतद्भयः परस्य अतोः प्रत्ययस्य उत्तुल इत्यादेशो भवति ॥ एत्तुलो । केत्तुलो । जेत्तुलों । तेत्तुलो । एत्तुलो ॥ ४३५॥ त्रस्य उत्तहे. ॥ ८।४। ४३६॥ अपभ्रंशे सादेः सप्तम्यन्तात्परस्य प्रत्ययस्य उत्तहे इत्यादेशों भवति ॥ एतहे तेत्तहे वारि घरि लच्छि निसण्ठुल धाइ ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy