________________
सर्गः.] • धर्माभ्युदयमहाकाव्यम् । उचिरे सूरयोऽप्येतत् , कृतज्ञस्य तवोचितम् । तीर्थप्रभावप्रभवं, वैभवं भवतः पुनः ॥५७ ॥ तदत्रावस्थितेनैव, सेव्यः शश्वदसौ प्रभुः । तदाराधकलोकस्य, दुरितं हरता त्वया ॥५८ ॥ ततोगुरूणामादेशाद्, देशान्तरपराङ्मुखः । यक्षः कपर्दी तीर्थेऽस्मिन् , विघ्नमर्दी स्थितः स्वयम् ।। ५९ ॥
वृत्तान्तमेनमाकाऽनघा कौलीनशङ्किनी । शाकिनीवातिदुष्टाऽपि, स्वपापेनान्वतप्यत ॥ ६० ॥ सा विवेकमिवोत्तुङ्गमारुह्य शिखरं गिरेः । प्रभुमेनं नमस्कृत्य, कृत्यज्ञा भक्तमत्यजत् ॥६१ ॥ ततः सा तीर्थमाहात्म्याद्, द्विपरूपधरः सुरः । भर्तुहिनतां प्रापदाभियोगिककर्मणा ॥६२ ।। यक्षस्ततः प्रभृत्येष, कपर्दी करिवाहनः । पाशा-ऽङ्कुशलसद्वाम-दक्षिणोपरिपाणिकः ॥ ६३ ॥ द्रव्यप्रसेविका-बीजपूराकाधःकरद्वयः । स्थापितः शिखरेऽत्रैव, भजते जनपूजनम् ॥ ६४॥ समस्तेष्वपि सङ्केषु, तीर्थयात्राविधायिषु । कुरुते दुरितोच्छेदमेदुरं प्रमदोदयम् दिवानिशमसौ तीर्थरक्षादक्षिणमानसः । विधत्ते प्रत्यनीकेषु, सम्प्रत्यपि विनिग्रहम् शत्रुञ्जयतीर्थोद्धारवर्णनम् __ अपि चात्र जिनाधीशचैत्यं भरतकारितम् । भूयोभिरुद्धतं भूपैर्गतं कालेन जीर्णताम् ॥ ६७ ॥ ततश्चेक्ष्वाकुवंश्येन, स्मरता निजपूर्वजान् । पुनः सगरसंक्षेन, तचक्रे चक्रिणा नवम् ॥ ६८ ॥ ततः क्रमेण रामेण, निर्जित्य दशकन्धरम् । धरोद्धरणधुर्येण, चैत्यमेतत् समुद्धृतम् ॥ ६९ ॥ दृप्यन्निजभुजौर्जित्यजितकौरवगौरवैः । पुनर्नवभवल्लक्ष्मीताण्डवैरथ पाण्डवैः ॥ ७० ॥ ततो मधुमतीजातजन्मना सत्वसद्मना । देवतादेशमासाद्य, तपो-ब्रह्ममयात्मना ॥ ७१ ॥ पुण्यप्राप्यं प्रतिष्ठाप्य, प्रभूतद्गविणव्ययात् । ज्योतीरसाश्मनो विम्वं, जावडेन न्यवेश्यत ॥ ७२ ।।
॥ युग्मम् ॥ शिलादित्यक्षमापालो, वलभीवलभित् ततः । पुनर्नवीनतारुण्यपुण्यं चक्रे जिनालयम् ॥ ७३ ॥ गूर्जराधरित्रीशे, ततः सिद्धाधिपे सति । श्रीमानाशुकमन्त्रीशस्तीर्थमेनमपूपुजपत् ॥ ७४ ॥ उपत्यकायामेतस्य, निवेश्य च निवेशनम् । स चैत्यं नेमिनाथस्य, भक्तिसारमकारयत् ॥ ७५ ॥ वापीमप्यत्र लोकस्य, तृष्णाविच्छेददायिनीम् । भगवद्देशनासारनीयं स निरमापयत् ॥ ७६ ॥ किञ्च तीर्थेऽत्र पूजार्थ, द्वादशग्रामशासनम् । अदापयदयं मन्त्री, सिद्धराजमहीभुजा ।। ७७ ।। कुमारपालभूपाले, पालयत्यवनीतलम् । मन्त्री वाग्भटदेवोऽभूदयोदयननन्दनः ॥७८ ॥ निदेशादथ भूभर्तुरभ्यमित्रीणताजुपः । समं सुराष्ट्रापतिना, पितुः सङ्ग्रामगामिनः ॥ ७९ ॥
समायातस्य तीर्थेऽस्मिन्, तीर्थोद्धारमनोरथम् ।
विज्ञो विज्ञातवान् सोऽयं, परिवारगिरा चिरात् ॥ ८० ॥ युग्मम् ॥ पुण्यलक्ष्मी भवाम्भोधेरुद्धर्तुं पुरुषोत्तमः । स नाभेयप्रभोर्नव्यं, मन्दिरं मन्दरं व्यधात् ॥ ८१ ॥ विशालशालं शैलाधो, मुक्ताभकपिशीर्षकम् । ताडकवद् भुवश्चक्रे, श्रीकुमारपुरं पुरम् ॥ ८२ ॥
त्रिभुवनपालविहारो, नीलमणिचिडम्बिपार्श्वजिनविम्वः । इह वहति मध्यनिहितस्तवकतुलामतुलसौभाग्यः
॥ ८३ ॥ १ दयं प्र खंता० ॥ . २ 'धराधीशे खंता० ॥ ३ जुषा खंताः पाता० ॥ ४ पुरा खंता० पाता० ॥ ५°ध्यविनि वता० ॥ . ।