SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अजन्तल्लिङ्गप्रक्रिया ॥ १॥ (५५) मञ्जरों कुमुमितां वृक्षस्य शाखोन्नता, वृक्षे नीडमिदं कृतं शकुनिना हेवृक्ष के प श्यसि । पुनर्विशेषमाह । अकारान्तानामिति यद्यपि सदियोऽकारान्तास्तथापि सर्वादीनां विशेषो देवशब्दात् कश्चिद्भेदोऽस्ति । के ते सर्वोदय इत्याह । सर्वविश्वति यावत् अस्मद् । विश्वशब्दस्य सकलार्थवाचकत्वे सर्वादित्वं नतु जगद्वाचकत्वे। जगद्वाचकत्वे तु कुलशब्दवत् । समः अतुल्यार्थः सर्वार्थवाचक तुल्यार्थत्वे राज्ञः समायेत्यत्र न सर्वादित्वम् । सिम समग्रार्थवाचकः। नेम खण्डवाचकः । पूर्वादीनां तु व्यवस्थायामेव सर्वादित्वम् । स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्थेति स्वस्याभिधेयो यो दिग्देशकालस्वभावस्तमपेक्षते तेनैवापेक्षते इति स्वाभिधेयापेक्ष ईदृशो योऽवधर्मर्यादाया नियमोऽवश्यंभावोऽवधिभावादभ्रंशो व्य. वस्था उच्यते । दक्षिणशब्दस्य प्रावीण्ये शृंगारनायकवाचकत्वेवा न सर्वादिकार्यम् । अन्यत्र दक्षिणदिन्देशवाचकत्वे सर्वादित्वं । उत्तरशब्दस्य उत्तरदिग्वाचकत्वे सर्वा. दित्वं प्रतिवाक्ये तु न सर्वादिकार्यम् । अधरस्य हीनार्थत्वे सर्वादित्वं नत्वाष्ठेवोचकत्वे स्वैशब्दस्य ज्ञातिधनान्यवाचित्वे ज्ञातिधनार्थवज किन्तु आत्मात्मीयार्थवाचकत्वे सर्वादित्वम् । स्वाः ज्ञातयः, स्वानि द्रव्याणि इत्यत्र सर्वादित्वं न अन्यत्र तु स्वस्मै रोचते, स्वे पुत्राः, स्वस्मै पुत्राय देहि, अत्र सर्ववत् । अन्तरशब्दस्य बहियोंगे उपसव्यानेच सर्वोदित्वं नान्यत्र । यतः।' मध्यछिद्रे विशेषेच व्यवधाने बहिर्यजि। उपसंख्यानने माज्ञाः षडयं त्वन्तरं विदुः ॥ अन्तरस्मै गृहाय नगरबाडाय चाण्डालादिगृहायेत्यर्थः । पुरि तु न भवति । अन्तरायै पुरे कुप्यति चाण्डालादि बाबपु इत्यर्थः। वखान्तरेण गृहितं वस्त्रं उपसंन्यानं तत्रार्थे अन्तरे अन्तरा वा शाठकाः, अन्तरस्मै शाटकाय वस्त्रान्तरेणावृताय शाटकायेत्यर्थः । यतः 'स. वादिः सर्वनामाख्ये नचेद्गौणोऽथवाभिधा । पूर्वादिश्च व्यवस्थायां समो ऽसुल्पत रो ऽपुरि ॥ परिधाने बहियोंगे स्वोऽर्थज्ञात्यन्यवाच्यपि ॥ उभशब्दस्य भवच्छ ब्दस्य द्विशब्दस्य स्वच्छन्दस्य च तृतीयासमासे तथा हेत्वर्थे सर्वादः सर्वा विभ. कयस्तदर्थ अकच्प्रत्ययार्थं च सर्वादिमध्ये ग्रहणम् । यथा उभौ हेतू उभाभ्यां हेतु. भ्यां, उभयोः हेत्वोः, त्वत् हेतुः, त्वतं हेतु, स्वता हेतुना, त्वते हेतवे, द्वौ हेतू, द्वाभ्यां हेतुभ्यां, द्वयोः हेत्वोः, भवान् हेतुः, भवन्तं हेतुं, भवता हेतुना, इत्यादि। तथा अज्ञातौ उभौ उभको एवं कौ भवकान, भवकन्तौ, भवकन्तः, स्वकत् इ. त्यादि । एवे सर्वादय उच्यन्ते कथ्यन्ते । त्रिलिङ्गा लिजयघारिणः पुल्लिङ्गास्त्रीलिङ्ग१ अनुकूलः, दक्षिणः, शठः, धृष्टः, एते चत्वारः भंगारनायकाः वाग्भद्यलंकतिप्रसिद्ध्यः ।, २ ज्ञातावात्मनि चाभीये धने स्वाख्या प्रवर्तते । ३ अन्तरीय निवसनमुपसंन्यानम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy