SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया। ३२७ इच्छति, इच्छेत्, इच्छतु, ऐच्छत् । इयेष ईषतुः ईषुः। इयेषिय । इष्यात् । लित्पुषादेड । ल लकारः इत् यस्यासौ लित' पुष् आदिर्वस्यासौ पुषादिः । लिच्च पुषादिश्च लित्पुषादिः तस्मात् लित्पुषादेः (पं. ए.) : (म. ए.) द्विपदं सूत्रं लितो धावोः पुषादेर्युतादेश्च भूतार्थे प्रत्ययो भवति दिबादौ परे सति सेरपवादो भवति । गम् उ दिपिति जाते । गमां स्वरे । अनेनोपधाया लोपे प्राप्ते क इत्युकत्वानोपधाया लोपः । डकारो गुणप्रतिषेधार्थः । स्वर० । अगमत् । इषु इच्छायो । पूर्ववत् तिबादयः । गमां छः। अनेन षस्य छः । छः । खसे । स्वर० । इच्छ'ति लिट्लकारे इ इष्णपिति स्थिवे उपधाया लघोः । अनेन गुणः । असवर्णे । अनेनेय् । स्वर० । इयेष । सवणें । ईषतुः ईषुः । इषिथ । इण्यात् । इष् वा इवि स्थिते सूत्रम् । इषुसहलुभरिषरुषामनपि तस्येड्डा वक्तव्यः । एषिता-एष्टा, एषिष्यति, ऐषिष्यत् । ऐषीत ऐषिष्टाम् ऐषिषुः । निफला विशरणे । फलति, फलेत्, फलतु, अफलत, पफाल । आदेशादित्वेनैत्वपूर्वलोपनिषेधे प्राप्ते। इषुसह । इषुश्च सहश्च लुभश्च रिषश्च रुष् च इषुसहलुमरिषरुषः तेषाम् इषुसहलुमरिषरुषां धातूनामनपि विषये तादिप्रत्ययस्येद् वा वक्तव्यः । अनेन वेट् । गुणः । एषिता । इडभावे गुणः । ष्टुभिः टुः।एष्टा । एषिष्यति । स्वरादेः । अनेन द्वितीयोऽट् । ऐषिष्यत् । ऐषीत् । त्रिफला विशरणे । पूर्ववत् विबादयः । फलति । लिट्लकारे । अत उपधायाः । अनेन वृद्धिः । झपानां । अनेन फस्य पः । पफाल । पफल् अतुस् इति स्थिते । आदेशादित्वेनैत्वपूर्वलोपनिषेधे प्राप्ते सूत्रम् । तूफलभजत्रपां किति णादौ सेटि थपि चैत्वपूर्वलोपौ वक्तव्यौ । फेलतुः फेलुः । फेलिथ,फल्यात्,फलिता, फलिष्यति, अफलिष्यत् । लघ्वकारोपधत्वेन वृद्धिविकल्पे प्राप्ते । तृफल० । तृफलभजत्रपां घातूनां किति गादौ परे च सेटि थपि परे एत्वपूर्वलोपो वक्तव्यौ । अनेनास्यैत्वपूर्वलोपौ । फेलतुः । फेलिथ । अन्यानि मूले सन्ति । लुङ्लकारे । हसादेः । अनेन वृद्धिविकल्पे माप्ने सूत्रमिदं ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy