________________
• . भ्वादिमकिया। केचिसंयोगादेति वक्तव्यम् । ममथनुः ममथुः । नलोपः। मथ्यात्, मन्धिता, मन्थिष्यति, अमन्यिष्यत्, अमन्धीत् अमन्धिष्टाम् अमन्धिषुः । पुथि लुथि मथि कुथि हिंसासंकेशनयोः।
केचिदार्याः संयोगात् धातोर्णादेः कित्त्वं वा वक्तव्यमिति वदन्ति । अनेन णादे विकल्पेन कित्त्वम् । तदा ममथतुः ममथुः । ईदृशानि रूपाणि भवन्ति । लिङ् । नलोपः । मथ्यात् । मथ्यास्तां । मथ्यासुः । लुट् । मन्थिवा ! मन्थिवारौ। मन्थिता रः । लइ । मन्थिष्यति । मन्थिष्यतः । मन्थिष्यन्ति । लङ् । अमन्थिष्यत् । अमथिण्यताम् । अमन्थिष्यन् । लुङ् । अमन्थीत् । अमन्थिष्टाम् । अमन्थिषुः । समाप्तोऽयं धातुः । पुथि लुथि मथि कुथि एते धाववो हिंसासंक्लेशनयोः प्रवर्तन्ते । सूत्रम् ।
इदितो नुम् । इदितो धातोर्नुमागमो भवति । कुन्थति कुन्थेत् कुन्थतु अकुन्थत् । द्वित्वम् ।
इदितो नुम् । इत् इत् यस्य स इदित् तस्मात् इदितः (पं. ए.) नुम् (प्र. ए. ) द्विपदं सूत्रम् । इदितो धातोर्दशस्वपि लकारेषु नुमागमो भवति । पूर्ववत् तिबादयः । इदिवो नुम् । मित्यात् । नश्चापदान्ते । लट् । कुन्यति । लिङ् । कुन्थेत् । लोट् । कुन्थतु । लङ् । अकुन्थत् । लिट् । कुन्थ् णप् इति स्थिते । द्विश्च । पूर्वस्य हसादिः शेषः । कुकुन्थ् णप् इति जाते सूत्रम् ।
कुहोश्चः । पूर्वसंबन्धिनोः कवर्गहकारयोश्चुत्वं भवति । वर्गचतुर्थो हस्य सवर्णः । चुकुन्थ चुकुन्थतुः चुकुन्थुः । चुकुन्धिथ चुकुन्थथुः चुकुन्थ । चुकुन्थ चुकुन्थिव चुकुन्थिम । लघूपधत्वाभावादगुणः ।
कुहोश्चः । कुश्च हच कुहौ तयोः कुहोः (प. द्वि.) चुः (म. ए.) द्विपदं सूत्रम् | द्वित्वे कृते सति पूर्वसंवन्धिनोद्वित्वसंबन्धिनोः कवर्गहकारयोश्चवर्गादेशो भवति । ननु कवर्गस्य चवर्गों यथासंख्यं भवति पर हकारस्य चवर्गत्वं कथं क्रियते । अत्रोच्यते । मातृकापाठे शषसह इत्यत्र हकारस्य चतुर्थस्थानवतित्वात् हकारस्य चुत्वे झकारो भवति । अथवा । वर्गचतुर्थो हस्य सवर्ण इति वचनात् चवर्गमध्ये हस्य सवर्णों झो भवति । अनेन कवर्गस्य चवर्गों भवति । स्वरहीनं० । चुकुन्य । चुकुन्थतुः । चुकुन्थुः । लिङ् । 'नो लोपः । इति सूत्रेण नकारस्य लोपे मा. सति ।