SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ समासपक्रिया। (२४७) स्रो द्वैमातुरः गणेशः एवं सामातुरः, भाद्रमातुरः, सत्यास्तु तनये सामातुरवदा. द्रमातुरः द्वावपि सतीसुतवाचको इत्यादिरणन्तः । अन्यत्राप्यण् प्रत्ययो भवति । यतः। रागानक्षत्रयोगाच समूहात् सास्य देवता ॥ तद्वेत्यधीते तस्येदमेवमादिरणिप्यते ।। १ ॥ रागाधथा । कुङ्कमेन रक्तं वस्त्रं कौङ्कमम् । नक्षत्रयोगात् पुष्येण युक्तः कालः पौषः । समूहात नराणां समूहो नारं । सास्यदेवतेत्यर्थे इन्द्रो देवताऽस्यैति ऐन्द्रम् । तद्वत्तीत्यस्यार्थे व्याकरणमधीते वेद वा वैयाकरणः । तस्येदमित्यस्यार्थे देवदत्तार्थमिदं देवदत्तं सुवर्णस्येदं सौवर्णम् इत्याद्यर्थेष्वप्यणप्रत्ययः स्यात् । तदने यथास्थाने साधयिष्यति । अथापत्येऽर्थे प्रत्ययान्वरमाह । अत इअनुषः । अकारान्तानानोऽनृषिशब्दादपत्येऽर्थे इप्रत्ययो भवति । यस्य लोपः देवदत्तस्यापत्यं देवदत्तिः । श्रीधरस्यापत्यं त्रैधरिः । दशरथस्यापत्यं दाशरथिः । पौरदरिः । क्वचिषिशब्दादपि भवति । तेन औदालकिः । अत इअनुषः । अत् (पं. ए.) स्वर० स्रो० इञ् (म. ए.) हसेपः पवादादबे लोपश् । अनृषे न ऋषिः अनृषिः तस्मात् (पं. ए.) किति इकारस्यैकारः स्येत्यकारलोपः स्रो० पूर्व स्वर० त्रिपदम् । ऋषिवाचकशब्दवर्जितादकारान्तानानोऽपत्येऽथै इश्मत्ययो भवति । अणोऽपवादः । अत्र भकारो वृद्धयर्थः । उदा. हरणम् दैवदचिः देवदत्तस्यापत्यं इसत्ययः भकारो वृद्धयर्थः आदिस्वरश्चेति वृद्धिः दै यस्य लोपः स्वर० (म. ए. )स्रो दैवदत्तिः। एवं श्रीधरस्यापत्यं त्रैधरिः अत्र इन् प्रत्यये श्री इत्यस्य त्रै इति वृद्धिः । तथा दशरथस्यापत्यं दाशरथिः । अत्र वृद्धिकार्य दस्य दा । पुरन्दरस्यापत्यं पौरन्दरिः अत्र उकारस्य औकारो वृद्धिः एवं रावणः। बहादेश्च । बव्हादेः पर इञ् प्रत्ययो भवत्यपत्येऽर्थे । बहोः अपत्यं बाहविः । उपबिन्दोरपत्यमौपबिन्दविः । - ष्णस्यापत्यं कार्णिः । उडुलोन्नोऽपत्यमौडलोमिः । नो वा। अग्निशर्मणोऽपत्यमाग्निशर्मिः। बव्हादेश्च । बह्वादेस्तु अकारान्तत्वाभावेऽपि इस् वक्तव्यः । बाहविः, वाणिः, आनिः, शामिः । सर्वत्र तद्धिवे विकल्पानुवृत्तिरस्त्येव तेन वासुदेवः, शैवः, वैदेहः, इत्यादौ इम् न स्यात् । व्यास, वरुट, सुधात, निषाद, बिम्ब, चाण्डालादन्तस्य
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy