SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (२१८) सारस्वते प्रथमवृत्तौ। उपकुम्भं देहि । अनत इति विशेषणादुपकुम्भादानय। उपकुम्भं देशः । उपकुम्भ निधेहि उपकुम्भे निधेहि ।। वाटाड्योरिति । (म० ए०) अव्ययाच डिश्च टाडी तयोः (ष द्वि०) इय स्वरे। स्वर द्विपदं सूत्रम्। टाकि इत्येतयोर्वचनयोर्वा अम् भवति उपकुम्भद्विस्थाने उभयत्रापि [तृ० ए०] 7 एकत्र अम् अन्यत्र वा शस्य बहुलार्थत्वाल्लुक न. किं तु टेन अइए उपकुम्भं उपकुम्भेन वा का कृतं कुम्भस्य समीपेन कृतमित्यर्थः । चतुथ्यो तु उपकुम्भं देहि कुम्भस्य समीपाय देहीत्यर्थः । पञ्चम्यां अनत इति विशेषणात् अम् न भवति। अतः उपकुम्भात कुम्भस्य समीपादानय षष्ठयां तु उपकुम्भं देशः कुम्भ संबन्धिनः समीपस्य देशः प्रदेश इत्यर्थः । सप्तम्यां तु वागडयोरिति विकल्पेन अम् पक्षे अइए उपकुम्भं उपकुम्भे हौ रूपद्वयं । कुम्भस्य समीपे निधेहि स्थापयेत्यर्थः । अवधारणार्थे यावति च । अवधारणार्थे यावच्छब्दे प्रयुज्यमाने अव्ययपूर्वपदाभावेऽपि योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति । यावन्त्यमत्राणि तावतो ब्राह्मणानामन्त्रय स्वेति यावदमत्रम् । मक्षिकाणामभावो निर्मक्षिकं वर्तते। पुनरव्ययीभावं वक्तव्यरूपया फक्किया निरूपयति। न केवलं अव्यये पूर्वपदे एवाव्ययीभावः। किंत्ववचारणार्थ यावच्छब्देऽपि पूर्वपदेऽव्ययीभावः अवधारणार्थे यावच्छब्दः। ततो ऽवधारणे अर्थे यावच्छब्दे पूर्वपदे प्रयुज्यमाने योऽन्वयः परिमाणार्थे सोऽव्ययीभावसंज्ञकः समासो भवति । चशब्दादभावार्थेऽपि अव्ययपूर्वकत्वेऽव्ययीभावः समासः इति समाससंज्ञायां यावत् (प्र० ब०) जश्शसोः शिः नुमयमः। नश्वा० स्वर० अग्रे अमत्र (म०ब०) जमशसोः शिः० नुमयमः नोपधायाः रु?णो स्वर यावन्ति यावत्संख्याकान्यमत्राणि पात्राणि भाजनानि भवन्ति, तावतस्तावत्संख्याकान् ब्राह्मणान् आमन्त्रयस्व भोजनार्थ निमन्त्रयस्वेति विग्रहं कृत्वा पदद्वयेऽपि समासपत्यययोरिति विभक्तिलोपः । ' यावत्+अमत्र' इति स्थिते ब्राह्मणानित्यत्र विशेष्यस्य द्वितीयाबहुवचनं शस् अतोऽमनत इति शसोऽम्। अम्शसोग चपा अबे० तस्य द० यावदमत्रमिति पात्रसंख्यया बाह्मणानामन्त्रयस्वेत्यर्थः । तथा मक्षिका (प. ब.) नुडामः। रुनोंणो० स्वर० मक्षिकाणामभाव इति विग्रहे अभावार्थः पूर्व निर प्रयोगः। अत्राभावेऽप्यव्ययीभावसमासः। समासप्रत्यययोरितिषष्ठीलोपः । नामसंज्ञायां स्यादि। (म. ए.) नपुंसकत्वादव्ययीभावस्य -हस्वत्वं अतोमनत इति सेरम् अम्शसोरस्य मोनु० निर्मक्षिकं वर्चते। अग्रे निक्षिकं पश्य निर्मक्षिकं कृतमित्यादीनि द्वितीपादिषूदाहरणानि ज्ञेयानि । अथ तत्पुरुषसमासमाह । सूत्रम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy