________________
कारकाणि ।
(१९३) कराग्रेण विदीर्णोऽपि वानरैयुध्यते पुनः॥ प्रकृत्यादिभ्यः। प्रकृत्यादिभ्यः शब्देभ्यस्तृतीया स्यात् । प्रकृत्या चारुः । प्रायेण अलसः । सुखेन याति । गोत्रेण गायैः। गार्योऽस्य गोत्रमित्यर्थः।।
॥ इति तृतीया ॥ कर्तरीति । करि कर्तुर्विषये तृतीया विभक्तिर्भवति । कर्मोक्तौ इति विशेषः कथंभूते कर्त्तरि, प्रधाने मुख्य क्रियाया आश्रये मुख्यवृत्त्या कार्यस्य कारके उत्पा. दके ईदृशे कर्वरितृतीया च पुनः सावनेऽपि तृवीया कथंभूते साधने। क्रियासिद्धयुपकारके कार्यस्य साहाय्यकारके, पुनः करणनामकारके साधनेऽपि तृतीया भवति । यः प्रधानभूतः सन् क्रियाया आश्रयभूतः स्वातन्येण क्रियां कर्तुं प्रवृत्तः सकता तस्यार्थे तृतीया भवति।च पुनः क्रियासिद्धेः उपकारके प्रकृष्टकारणभूते साधनेऽपि वृवीया भवति । करोतीति क स क उच्यते इत्याह । क्रियाश्रयःक्रियायाः कार्यस्य आश्रयः क्रियाश्रयः। क्रियाया आश्रयोऽप्रधानोऽपि भवति। पटोत्पत्तौ तुरीवेमादिवदित्यव आह । प्रधान इति। सकलकारकायोक्तृत्वे सतीतरकारकाप्रयोज्यत्वमत्र प्र. धानत्वं तस्मिन् । किविशिष्टे साधने क्रियासिद्धयुपकारके क्रियायाः सिद्धिम् उपकरोतीति क्रियासिद्धयुपकारक क्रियासिद्धेः साहाय्यदायक क्रियासिद्धया उप सनिहितत्वेन कारकं तस्मिन् । पुनः कीदृशे साधने, करणे साधकतमं करणं क्रियासिद्धः प्रकृष्टकारणं । यद्वा करणं करणनांमकारकं तस्मिन् एवं कर्तृसाधनयोयोरथें तृतीया भवति । उदाहरणम् । भिन्नः शरेणेत्यादिः श्लोकः रामेण रावणो मिन्नः केन, शरेण। रामेण इति करितृतीया, शरेणेति साधने तृतीया । कथंभूतो रावणः । लोकरावणः लोकान् रावयति क्रन्दयतीति लोकरावणः उदाहरणान्तरमाह तथा रावणो वानरैः कराग्रेण नखेन विदीर्णोऽपि विदारितोऽपि पुनः पुनरपि युध्यतेऽत्र वानरैरिति कर्तृपदं कराणेति साधनपदं उभयत्रापि तृतीया। कराग्रेणेत्यत्र जातावकवचनम् ।शेष सुगमम् । पुनस्तृतीयार्थ विनासहेत्यादिना अग्रे वक्ष्यति । इति तृतीयाः । अथ चतुर्थ्यर्थमाह ।
दानपात्रे संप्रदानकारके चतुर्थी । सम्यक् श्रेयोबुद्धया प्रदीयते यस्मै तत्संप्रदानकारकम् । वेदविदे गां ददाति । अन्यत्र राज्ञो दण्डं ददाति । रजकस्य वस्त्रं ददाति । ददाति दण्डं पुरुषो महीपतेनं चातिभक्त्या
२५