________________
हसान्तपुंलिङ्गमर्किया ॥ ४ ॥
( १२७ )
"
त्ययो भवति । ऋकार इत् । उकारानुबन्धत्वं तु चिन्त्यम् । मह्यते इति महत् कार्यार्थमुच्चरितस्य वर्णस्यानुबन्ध ' इति संज्ञा । यद्वा उच्चरितप्रध्वंसिनो ह्यनुबन्धाः । सूत्रम् ।
"
व्रितो नुम् ॥ उश्च ऋश्व वृ । वृ इत् यस्य स ब्रित् तस्य व्रितः नुम् । उकारानुबन्धस्य ऋकारानुबन्धस्य च नुमाग मो भवति पुंसि पञ्चसु परेषु ।
त्रितो नुम् । त्रिल, उश्च ऋश्च वृ, व इत् यस्य स ब्रित् ( ष० ए० ) स्वर० । स्रो० । नुम् (प्र. ए. ) हसेपः० । हबे । उभो । सिद्धम् । उकारानुबन्धस्य वतुमत्ययादेः ऋकारानुबन्धस्य च शतृप्रत्ययादेः नुमागमो भवति पुंसि पुलिङ्गे पञ्चम वचनेषु परेषु । शौ चेति नपुंसके जग्ालोः स्थाने जाते शौ परे । अनेन पञ्चसु स्यादिषु तकारात् पूर्वं न सूत्रम् ।
सम्मतोऽधौ दीर्घः शौच ॥ न् च सूच अप्च महश्च एतेषां समाहारः न्सम्महत् । तस्य न्सम्महतः अधौ दीर्घः शौ चेत्यव्ययम् । न्सन्तस्याशब्दस्य महच्छब्दस्य च दीर्घो भवति पञ्चसु परेषु धिवर्जितेषु शौ च परे । संयोगान्तस्य लोपः । महान् । नश्वापादान्ते झसे । महान्तौ महान्तः । महान्तम् महान्तौ महतः । महता महद्भयाम् महद्भिः । महते महन्द्रयाम् महद्भयः इत्यादि । हेमहन् हेमहान्तों हेमहान्तः । न्सन्तस्येत्यागमजनकारयुक्तसान्तस्य ज्ञेयम् । तेन कंसशब्दस्य क्विवन्तस्य न दीर्घः । संयोगान्तस्य लोपः कन् कंसौ कंसः । कंसम् कंसौ कंसः । कंसा कन्भ्याम् कनूभिः । कन्तु । हेकन् । शोभना आपो यस्मिन्न तौ स्वाप् - स्वाब स्वापौ स्वापः । स्वपि तडागानि । उकारानु। बन्धो भवच्छब्दः ।
न्सम्महतो धौ दीर्घः शौच । नच स् च अप् च महच्च न सम् महत् तस्य