SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ संज्ञामक्रिया ॥ १ ॥ ( ९ ) 2 ऌ चत्वार एकारादयश्च ए ऐ ओ औ एते उभये मिलिता नव संख्याः स्वरा उच्यन्ते कथ्यन्ते दीर्घभेदमेलने चतुर्दश स्वरा भवन्ति यथा अ आ इ ई उ ऊ ऋ ऋ ऌ ऌ ए ऐ ओ औ । केचित्तु अकारादयः पंच उभये उभयप्रकाराः हस्वदी घी इति चत्वार एकारादयश्च स्वरा उच्यन्त इति व्याकुर्वन्ति परं तत् सूत्रानुसारि न यत उभये इत्यनेन अकारादय एव उभयप्रकारा गृह्यन्ते तदा चत्वार एकारादय इति कुतः प्राप्यते ॥ अथैष्वेवं विशेषमाह । सूत्रम् अवर्जा नामिनः । अवर्णवर्ज्याः स्वरा नामिन उच्यन्ते ॥ अनुक्रान्तास्तावत्स्वराः । द्विपदमिदं सूत्रं । अं अवर्ण वर्जयन्तीत्यवर्णाः सवर्णे ० स्रो० नामिनः स्वर० अवर्णवजी अकाessकाररहिताः स्वराः इ ई उ ऊ ऋ ऋ ऌ ऌ ए ऐ ओ औ एते नामिन उच्यन्ते नमनं नामः तदस्त्येष्विति नामिनः । अवर्णो नामी नोच्यते लिपिन्यासे तस्य सरलत्वाद || अथ स्वरोपसंहारमाद अनुक्रान्ता इत्यादि । तावदादौ स्वरा अनुक्रान्ता अनुक्रमेण कथिताः ॥ अथ व्यञ्जनान्याह । प्रत्याहारजिग्राहविषया व्यञ्जनान्यनुक्रामति ॥ प्रेति । व्यज्यन्ते प्रकटी क्रियन्ते अर्थाः प्रत्याहारा वा एभिरिति व्यञ्जनानि प्रत्याहारजिग्राह विषया ग्राहयितुमिच्छा निग्राहविषा प्रतिकार्य कार्यकार्यमति आन्दियन्ते आनीयन्ते इति प्रत्याहारा अबादयः तेषां प्रत्याहाराणां जिग्राहयिषा प्रत्याहार जिग्राहयिषा तथा प्रत्याहार जिग्राहयिषया कृत्वा व्यञ्जनानि अनुक्रामति अनुक्र मेण कथयति । सूत्रम् । हयरलव ञणनङम झढधवभ जडदगब ख फछठथ चटतकप - शषस आद्यन्ताभ्याम् । प्रत्याहारं जिघृक्षताद्यन्ताभ्यामेते वर्णा ग्राह्याः आदिवर्णोऽन्त्ये न गृह्यमाणस्तन्नामा प्रत्याहारः । तथाहि । अकारो बकारेण गृह्यमाणोऽप्रत्याहारः । स च अइउॠलए ऐओओहयरलव ङणनङमझढघघभजडदब इति अवप्रत्याहारः । झढवघभ इति झभप्रत्याहारः । एवं यत्र यत्र येन येन प्रत्याहारेण कल्यं भवति स स तत्र तत्र ग्राह्यः प्रत्याहाराणां संख्यानियमस्तु नास्ति । २
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy