________________
[६८] हेतुत्वमित्येव न्यायसिद्धम् । अत एव शमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यलक्षणानां सम्यक्त्वगुणानां पश्चानुपूज्यैव लाभक्रमः। प्राधान्यान्चेस्थमुपन्यास इति सद्धर्मविंशिकायां प्रतिपादितम् ।। ८॥ तदेवं हेतुभेदेनानुभावभेदेन चेच्छादिभेदविवेचनं कृतम्, तथा च स्थानादावेककस्मिन्निच्छादिभेदचतुष्टयसमावेशादेतद्विषया अशीतिर्भेदाः संपन्ना एतन्निवेदनपूर्वमिच्छादिभेदभिन्नानां स्थानादीनां सामान्येन योजनां शिक्षयन्नाहएवं ठियम्मि तत्ते, नाएण उ जोयणा इमा पयडा। चिइवंदणेण नेया, नवरं तत्तण्णुणा सम्मं ॥९॥
'एवं' इत्यादि । 'एवं' अमुना प्रकारेणेच्छादिप्रतिभेदैरशीतिभेदो योगः, सामान्यतस्तु स्थानादिः पञ्चभेद इति 'तत्वे ' योगतत्त्वे 'स्थिते' व्यवस्थिते 'ज्ञातेन तु दृष्टान्तेन तु चैत्यवन्दनेन इयं ' प्रकटा' क्रियाभ्यासपरजनप्रत्यक्षविपया योजना' प्रतिनियतविपयव्यवस्थापना 'नवरं' केवलं तत्त्वज्ञेन ' सम्यग् ' अवैपरीत्येन ज्ञेया ।। ९ ।। तामेवाहअरिहंतचेइयाणं, करेमि उस्लग्ग एवमाइयं । सद्धाजुत्तस्स तहा, होइ जहत्थं पयन्नाणं ॥१०॥ एयं चऽस्थालंवण-जोगवओ पायमविवरीयं तु। इयरेसिं ठाणाइसु, जलपराणं परं सेयं ॥ ११ ॥