SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [६७] कादिजन्तूनां तथाक्षयोपशमयोगतः' तत्तत्कार्यजननाकूलविचित्रक्षयोपशमसंपत्त्या भवन्ति, इच्छायोगादिविशेषे आशयभेदाभिव्यङ्ग्यः क्षयोपशमभेदो हेतुरिति परमार्थः । अत एव यस्य यावन्मात्रः क्षयोपशमस्तस्य तावन्मात्रेच्छादिसंपत्त्या मार्गे प्रवर्त्तमानस्य सूक्ष्मवोधाभावेऽपि मार्गानुसारिता न व्याहन्यत इति संप्रदायः ।।७।। इच्छादीनामेव हेतुभेदमभिधाय कार्यभेदमभिधत्तेअणुकंपा निव्वेओ, संवेगो होइ तह य पसमुत्ति एएसिं अणुभावा, इच्छाईणं जहासंखं ॥ ८ ॥ _ 'अणुकंप' ति । 'अनुकम्पा' द्रव्यतो भावतश्च यथाशक्ति दुःखितदुःखपरिहारेच्छा, 'निर्वेदः ' नैर्गुण्यपरिज्ञानेन भवचारकाद्विरक्तता, 'संवेगः' मोक्षाभिलापः, तथा 'प्रशमञ्च' क्रोधकण्डविषयतृप्णोपशमः, इत्येते ' एतेषां' इच्छादीनां योगानां यथासङ्खचं अनु-पश्चाद् भावाः 'अनुभावाः ' कार्याणि भवन्ति । यद्यपि सम्यक्त्वस्यैवैते कार्यमूतानि लिङ्गानि प्रवचने प्रसिद्धानि तथापि योगानुभवसिद्धानां विशिष्टानामतेपामिहेच्छायोगादिकार्यत्वमभिधीयमानं न विरुत्यत इति द्रष्टव्यम् । वस्तुतः केवलसम्यक्त्वलाभेऽपि व्यवहारेगच्छादियोगप्रवृत्तरेवानुकम्पादिभावसिद्धेः । अनुकम्पादिसामान्ये इच्छायोगादिसामान्यस्य तद्विशेषे च तद्विशेषस्य
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy