SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ परिमलनिर्मातुः परिचयः १४५ जयति जगति संविदात्मिकाया श्वरणसरोजरजोद्भवः प्रसादः। अभिमतकरुणाभरै र्यदस्या स्तवविवृतिः परिपूरिता मयैषा ॥१॥ इति परिमलगर्भ एष हृद्यः स्तुतिकुसुमैः कलितोऽञ्जलिः प्रकामम् । दिशतु सुमनसां मनःप्रसाद स्तवनरसालशिखास्तु पुष्पिताग्रा ॥२॥ शुभविक्रमाव्दरविविंशतिके (२०१२ वि.सं.) मधुमाधुरी - सुभगभावचिते । प्रमिताक्षरापि विशदार्थवती मम भारती गुरुमुदेऽस्तु सती ॥३॥ इत्ययोध्यापश्चिमप्रान्तवर्तिपण्डितपुरीवास्तव्य द्विवेदोपाख्याचार्यश्रीगिरिजाप्रसादसुतगङ्गाधरद्विवेदकृतिषु पुष्पाञ्जलिपरिमलः संपूर्ण इति शिवम् । अथ परिमलनिर्मातुः परिचयःअस्ति प्रशस्तजनता जनतापहन्त्री प्रत्याशभास्वरमणी रमणीयकान्तिः । उद्दण्ड-दण्डधरयोद्ध शतैरयोध्या । योऽध्येति नाम नगरी नगरीषु रम्या ॥१॥ चेतो हरन्ति मृदुकम्पनकेलिकम्रा यस्या उदपरिसरे सरयूतरङ्गाः । एभ्यः करालकलिकालमलाभिषङ्ग मूलावसादनकृते स्पृहयन्ति लोकाः ॥२॥
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy