SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भुवनेश्वरीपञ्चाङ्गम् अष्टौ बीजप्रमाणेन वायुवीजदयं चरेत् । एवं तु विबुधैर्जातं प्राणायामः स उच्यते ।। ... वामेन पूरकं कृत्वा कुम्भं दक्षिणरेचकम् । पुनर्दक्षिणरेचकं च कुम्भं वामेन रेचयेत् ।। पुनर्वामेन पूरकं च कुम्भदक्षिणरेचकम् । एवंविधि दृढीकृत्य शुद्धिप्राणप्रतिष्ठितम् ॥ इति वचनात् । स चाह, यं बीजेन षोडशवारं पूरकेण संशोप्य, रं ६४ . चतु:पष्टिवारं कुम्भकेन संदह्य, वं ३२ द्वात्रिंशद्वारं रेचकेन भस्म निःसारयेत्। वं १६ पोडशवारं पूरकेण संस्नाप्य, लं ६४ चतुःपष्टिवारं कुम्भकेन पिण्डीकरणं, हं ३२... द्वात्रिंशद्वारं रेचकेन प्राणस्थापनं, आं १६ पोडशवारं पूरकेण दृढीकृत्य ही ६४. . . चतुःपष्टिवारं कुम्भकेन शुद्धीकरणं क्रोचीजेन ३२ द्वात्रिंशद्वारं रेचकेण प्रतिष्ठाप्य इति. क्रमः ॥ एवं प्राणायामः, वं संप्लाव्य लं धनीकृत्य हं इति देहावयवान् ध्यात्वा जीवं पूर्णात्मभावं ह्रीं सोहं हंसः परमात्मनि स्वस्थाने संस्थाप्य परमात्मनः सकाशात् प्रकृतिः प्रकृतेमहत्तत्त्वं महत्तत्त्वादहङ्कारस्तस्मादाकाशः, आकाशाद्वायुवोयोरग्निरग्नेरापः अभ्यः पृथ्वी इति क्रमेण यथास्थाने भृतानि संस्थाप्य सोहमिति मंत्रण कुण्डलिनीममृतलोलीभूतां पश्चभूतानि जीवात्मानश्च ब्रह्मपथे स्वस्वस्थाने.. स्थापयेत् । इति भूतशुद्धिः ॥ अथ प्राणप्रतिष्ठापनम् ।। ततो देवीरूपमात्मानं विचिन्त्य हृदि हस्तं निधाय .. प्राणप्रतिष्ठां कुर्यात्, ॐ आँ ह्रीं क्रों यं रं लं वं शंघ सं हं सः मम प्राणा इह प्राणा... इह ।। १२ ।। मम जीव इह स्थित इह स्थितः ।। १२ ।। मम सर्वेन्द्रियाणि इह . स्थितानि इह स्थितानि ॥ १२ ॥ मम वाइमनस्त्वक्चनुःश्रोत्रजिह्वाघ्राणप्राणा इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा, इति प्राणप्रतिष्ठां विधाय स्वमूलमंत्रऋष्यादिकरपडङ्गन्यासान् विदधीत ॐ अस्य श्रीभुवनेश्वरीमन्त्रस्य श्रीशक्तिऋषिर्गायत्री छन्दः श्रीभुवनेश्वरी देवता ह्रीं वीजं श्री शक्तिः क्लीं कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः, इति कृताञ्जलिः .. स्मृत्वा शक्तिऋषये नमः शिरसि, गायत्रीछन्दसे नमो मुखे, श्रीभुवनेश्वरीदेवतायै नमो हृदि, ह्रीं वीजाय नमो गुह्ये, श्री शक्तये नमः पादयोः, क्लीं कीलकाय नमो नाभौ जपे विनियोगः । सर्वाङ्गे मूलेन नवधाव्यापकं न्यसेत् ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy