SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पूजापद्धतिः नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिद्ध्यै खीकृतानेकविग्रह ! ॥ ६ ॥ नवाय नवरूपाय परमार्थेकरूपिणे । सर्वाज्ञानतमोभेदभानवे चिघनाय ते ॥७॥ खतन्त्राय दयाक्लप्तविग्रहाय परात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ ८ ॥ ज्ञानिनां ज्ञानरूपाय प्रकाशाय प्रकाशिनाम् । विवेकिनां विवेकाय विपर्शाय विमर्शिणाम् ॥ ३॥ पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः। सदा मच्चित्तरूपेण' विधेहि भवदासनम् ॥ १० ॥ इति श्रीगुरु' प्रणम्य सुप्रसन्नं विभाव्य मनसा तदाज्ञां गृहीत्वा मूलाधारे लिङ्गगुहामध्ये योनिस्थाने स्वर्णवर्णे चतुर्दलकमलान्तर्गतत्रिकोणान्तर्गतशृङ्गाटकपीठो परि परां शक्तिं कुण्डलिनी सर्पाकारामूर्ध्वमुखी साईत्रिवलयां बिसतन्तुतनीयसीमुद्य..... दिनकरसहसभास्वरां विद्युत्कोटिसन्निभां पश्चाशवर्ण विग्रहामष्टात्रिंशत्कलारूपिणीं विधामधामानं सर्वदेवदेवीं सकलमंत्रान्तस्सुप्तां विभाव्य गुरूपदिष्टनिजसहजनादेन सचैतन्यां विधाय हुमिति शब्ददण्डेन प्रबोधयित्वा तत्र चतुर्दलेषु वं नमः शं नमः ... पं नमः सं नमः इति पत्रेषु प्रादक्षिण्येन प्रपूज्य मध्ये मूलेन च सम्पूज्य हंस इति मंत्रण सर्वत्रोत्थाप्य कमलात् कमलं नीत्वा खाधिष्ठाने पड्दले कमले लिङ्गमूले विद्मवणे तामारोह्य तत्र वं नमः मं नमः मं नमः यं नमः नमः लं नमः इति ... पत्रेषु मध्ये मूलेन च सम्पूज्य ततो हंस इति अनेन सर्वत्रोत्थाप्य नाभौ मणिपूरके :- नीलवर्णे दशदले कमले तां नीत्वा तत्र डं नमः हूँ नमः णं नमः तं नमः थं नमः दं नमःधं नमः ५ नमः ६ नमः इति पत्रेषु मध्ये मूलेन च सम्पूज्य ततो ... वक्षस्यनाहते पिङ्गलवणे द्वादशदलकमले तां नीत्वा तत्र कं नमः खं नमः गं नमः घं नमः, ऊँ नमः च नमः छं नमः जं नमः झं नमः बनमः टं नमः ठं नमः इति पत्रेषु मध्ये भूलेन च सम्पूज्य, ततो विशुद्धौ कण्ठे धूम्रवर्णे षोडशदलकमले तां नीत्वा तत्र अं नमः ां नमः ई नमः ई नमः ऊँ नमः ऊं नमः ऋ नमः ऋ नमः १. ह्यचिन्त्यरूपेण । २. यद्यपि "प्रबोध्य" इत्येव शुद्धस्ततोऽपि तन्त्रशास्त्राचाराद् यथास्थितं गृहीतः।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy