SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अथ भुवनेश्वरीपूजापद्धति: श्रीगणेशाय नमः अथ पूजाविधिं वक्ष्ये सर्वकामार्थसिद्धये । यामज्ञात्वा न जानाति पदमव्ययमात्मनः ॥ १ ॥ तत्र श्रीमान् साधको ब्राह्मे मुहूर्ते शयनतलादुत्थाय करचरणौ प्रक्षाल्य निजासने समुपविश्य निजशिरसि श्वेतवर्णाधोमुखसहस्रदलकमल कर्णिकान्तर्गतचन्द्रमण्डलसिंहासनोपरि स्वगुरु शुक्लवर्णं शुकालङ्कारभूपितं ज्ञानानन्दमुदितमानसं त्रिनयनं चतुर्भुजं ज्ञानमुद्रापुस्तकवराभयकरं वामाङ्गे वामहस्तधृतकमलया रक्तवसनाभरणया स्वप्रियया दक्षभुजेनालिङ्गितं सर्वदेवदेवं सर्वतीर्थ तीर्थं सर्वमङ्गलमाङ्गल्यं परमशिवस्वरूपं ध्यात्वा तच्चरणयुगल बिगलदमृतधारया स्वात्मानं प्लुतं विभाव्य मानसोपचारैराध्य मंत्र जपेत् ॐ ऐं ह्रीं श्रीं ह स ख फ ह स क्ष म ल व र यू ह्सौः स्हौः श्रीमदमुकानंदनाथश्रीपादुकां श्रीअमुकीदेव्यम्वाश्रीपादुकां च पूजयामि तर्पयामि नमः, इति पादुकामंत्रं दशधा विमृश्य दण्डवत् प्रणामं मनसा 'कुर्यात्तद्यथा नमामि सद्गुरुं शांतं प्रत्यक्षं शिवरूपिणम् । शिरसा योगपीठस्थं मुक्तिकामार्थसिद्धये ॥ १ ॥ श्रीगुरुं परमानन्दं वन्दाम्यानन्दविग्रहम् । यस्य सान्निध्यमात्रेण चिदानन्दायते वरम् ॥ २ ॥ श्रखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ३ ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ४ ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव जगत् सर्वं तस्मै श्रीगुरवे नमः ॥ ५ ॥
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy