SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ४२] भुवनेश्वरीपञ्चाङ्गम् प्रथमोऽष्टाक्षरो मन्त्रस्ततः कामिनि रञ्जिनि । स्वाहांतोप्टाक्षरः सद्भिरपरः कीर्तितो मनुः॥१६॥ ही गौरि रुद्रदयिते योगेश्वरि सवर्म फट् । :: द्विठान्तः पोडशार्णोऽयं मन्त्रः सद्भिरुदीरितः ॥ १० ॥ लिखित्वा भूर्जपत्रादौ यन्त्रमध्ये' यथाविधि । धारयेद्वामबाहौ वा कण्ठे वा निजमूर्द्धनि ॥ १०१॥ 'ईस्त्रिमूर्तिर्वामनेत्रं शेखरः कौटिलस्तथा। वाग्मी शुद्धश्च जिह्वाख्यो मायाविष्णुः प्रकाशितः ।।' इत्युक्तः ।। अात्मसहितयुग्मस्वरान्तर्गतमायालेखनक्रमस्तु दक्षिणामूर्विसंहितायाम् "हंसः पदं वामनेत्रं विन्द्विन्दुपरिभूषितम् । पुनर्हसः पदं चैतत् पश्चार्णम्मनुमालिखेत् ॥ खरद्वन्द्वोदगतं सप्तार्णं चाटधा भवेत् ।" इति ॥ तेन अं हंसः ई हंसः श्रां इत्यादिक्रमेण केसरेषु सप्त सप्त वर्णा लेख्याः। प्रपञ्चसारेप्येतद् यंत्रनिर्माणमुक्त यथा"अष्टाशान्तर्गताविहलयवरयुताचपूर्वपाश्चात्यपटकं. कोणोद्यत्स्वाङ्गसाष्टाक्षरयुगयुगलायाक्षराख्यं वहिश्च । मायोपेतात् सयुग्मस्वरमिलितलसत्केसरं साष्टपत्रं पद्मं तन्मध्यपङ्क्तित्रितयपरिलसत्पाशशक्त्यकुशार्णम् ॥१॥ पाशाङ्कुशावृतमनुप्रतिलोमगैश्च वर्णैः सरोजपुटितेन घटेन चापि। आवीतमिष्टफलभद्रघटं तदेतद्यन्त्रोत्तमन्त्विति घटार्गलनामधेयम् ॥ २॥ प्राक्प्रत्यगर्गले हलमथ पुनराग्नेयमारुते च हयम् । . दक्षोत्तरे हवाणं नैऋतशैवे द्विपतिशो विलिखेत् ॥ ३॥ विलिखेच्च कर्णिकायां पाशाङ्कुशसाध्यसंयुतां शक्तिम् । . अभ्यन्तरस्थकोष्ठेखङ्गान्यवशेपितेषु चाष्टाणे ॥४॥ कोष्ठेपु पोडशखथ षोडशवर्ण मनु तथा मन्त्री । . पद्मस्य केसरेपु च युगवरात्मान्वितां तथा मायाम् ॥ ५ ॥ ऐकैकेषु दलेषु त्रिशस्त्रिशः कर्णिकागतान मंत्रान् । .. .. . पाशाङ्कुशवीजाभ्यां प्रवेष्टयेबाह्यतश्च नलिनस्य ॥ ६॥ ... अनुलोमविलोमगतैः प्रवेष्टयेदक्षरैश्च तद्वाह्ये । तदनु घटेन सरोजस्थितेन तद्वक्त्रकेऽम्बुजं विलिखेत् ।। ७॥" . सारसंग्रहे 'घटार्गलाभिधं यंत्रं सर्वसम्पत्करं परम् ।' . १. यन्त्रमेतत् ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy