SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ . .. प्रबोधिनीटीकासहितम् [२६ व्रतेनेति-यः पुमान् व्रतेन हीनोऽपि अनवाप्तमंत्रः अप्राप्तमंत्रः श्रद्धाविशुद्धो भूत्वा श्रद्धया निर्मलीकृतमानसः सन् अनुदिनं निरन्तरं इदं जपेत् तस्यापि पुरुषस्य वर्षात संवत्सरात् विद्याः प्रभवन्ति स्फुरन्ति, किम्भूताः अनवद्यसद्यःकवित्वहृद्याः अनवद्येन निर्दोषेण सद्यः कविन्वेन तत्कालोदितकाव्येन' हृद्याः मनोहराः ॥ ४५ ॥ इदानीं अस्य स्तोत्रस्याचिन्त्यमहिमानमाह- . कोप्याचिन्त्यः प्रभावोऽस्य स्तोत्रस्य प्रत्ययावहः । श्रीशम्भोराज्ञया सर्वाः सिद्धयोऽस्मिन् प्रतिष्ठिताः ॥ ४६ ॥ कोपीति-अस्य स्तोत्रस्य कोप्यचिन्त्यः प्रभावः प्रत्ययावहो वर्त्तते प्रीतिजनको भवति यतः कारणात् श्रीशम्भं राज्ञया सर्वाः अणिमाद्याः सिद्धयोऽस्मिन् स्तोत्रे प्रतिष्ठिताः आरोपिताः अत एव अचिन्त्यमहिमस्तोत्रमित्यर्थः ॥ ४६॥ पद्मनाभेन कविना विपुला विमला कृता । पृथ्वीधरकृतेस्तेन वृत्तिः सद्युक्तिदीपिका ।। इति श्रीपद्मनाभकविविरचितं भुवनेश्वरीस्तोत्रभाष्यं सम्पूर्णम् ।। लिखितं ब्राह्मणजेरामेन ।। ख. पुस्तकस्य पुष्पिका॥ शुभम् ।। संवत् १६५० पौषमासीयकृष्णपक्षीयनवम्यां शुक्रे गंगासहायशर्मणो लिपिः । श्रीसवायी श्रीमाधवसिंहराज्ये जयपुरे पुस्तकमिदमायोध्यक सरयूप्रसाद द्विवेदिनः शिवम् ॥ ... ख. तत्कालोचितकाव्येन। २. ख. ग. प्रतीतिजनको । . ३. ख. तत्तु, ग. श्रीमत् पृथ्वीधरनुतेर्वृत्तिः सद्युक्तिदीपिनी। ख. पृथ्वीधरकृती तन वृत्तिः . सयुक्तिदीपिका। ४. ख. विवरणम्, ग. व्याख्यानम् ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy